Every question from the Sanskrit Literature Optional papers of UPSC Mains 2022, placed in its syllabus unit and checked against all questions asked from 2013 to 2021. See what was familiar, what came back and what was new.
Other years:
What stood out in 2022
- More marks than usual: भारतीयदर्शनस्य प्रवृत्तयः (100 marks, against an average of 83); व्याकरणम् (50 marks, against an average of 39).
- Fewer marks than usual: भारतीयसंस्कृतेः मूलतत्त्वानि (50 marks, against an average of 65).
- 17 questions were close repeats of an earlier paper: Q1b (Paper II), first seen in 2019; Q1d (Paper I), first seen in 2020; Q2c (Paper II), first seen in 2019; Q3c (Paper I), first seen in 2019; Q4b (Paper II), first seen in 2019; Q5a (Paper II), first seen in 2015; Q5b (Paper I), first seen in 2018; Q5b (Paper II), first seen in 2013; Q5c (Paper II), first seen in 2016; Q5d (Paper I), first seen in 2020; Q5d (Paper II), first seen in 2014; Q6b (Paper I), first seen in 2020; Q6b (Paper II), first seen in 2016; Q6c (Paper II), first seen in 2017; Q7a (Paper II), first seen in 2017; Q8a (Paper II), first seen in 2015; Q8b (Paper II), first seen in 2014.
- Every question came from a topic UPSC had asked recently.
Which units got the marks in 2022
Marks asked from each unit in 2022 (dark bar) against its average for 2013–2021 (grey bar).
Paper I
| Unit | 2022 | Average 2013–21 |
|---|---|---|
| व्याकरणम् | 50 | 39 |
| भाषा | 35 | 43 |
| साहित्येतिहासः काव्यशास्त्रं साहित्यविधाश्च | 115 | 117 |
| भारतीयसंस्कृतेः मूलतत्त्वानि | 50 | 65 |
| भारतीयदर्शनस्य प्रवृत्तयः | 100 | 83 |
| लघुनिबन्धः | 0 | 2 |
| अपठितगद्यांशः | 50 | 50 |
Paper II
| Unit | 2022 | Average 2013–21 |
|---|---|---|
| खण्डः क, वर्गः 1: काव्यम् | 50 | 50 |
| खण्डः क, वर्गः 2: उपनिषद्, गीता, रामायणम्, अर्थशास्त्रम् | 50 | 49 |
| खण्डः क, वर्गः 3: रूपकाणि | 50 | 49 |
| खण्डः क, वर्गः 4: संस्कृतेन लघुटिप्पण्यः | 50 | 52 |
| खण्डः ख, वर्गः 1: महाकाव्यपद्यानि | 50 | 52 |
| खण्डः ख, वर्गः 2: उपनिषद्, गीता, रामायणम् | 50 | 50 |
| खण्डः ख, वर्गः 3: मेघदूतम्, नीतिशतकम्, कादम्बरी | 50 | 51 |
| खण्डः ख, वर्गः 4: रूपकांशाः | 50 | 46 |
A question that fits two units is split equally between them.
Paper I
Q1a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोनिर्दिष्टाः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः –
(i) ‘च, त, प’ वर्णानाम् उच्चारणस्थानानि लेख्यानि।
(ii) ‘बालः घटं पश्यति’–वाच्यपरिवर्तनं क्रियताम्।
(iii) ‘इण्’ प्रत्याहारान्तर्गताः वर्णाः लेखनीयाः।
(iv) सवर्णसंज्ञा-विधायकं सूत्रं व्याख्यायताम्।
(v) ‘तेन वनशोभा दृश्यते’–वाच्यपरिवर्तनं क्रियताम्।
(vi) ‘उपशरदम्’ इत्यत्र विग्रहपूर्वकं समासनाम लिखत।
(vii) ‘हरे + अव’ इत्यत्र सूत्रोल्लेखपूर्वकं सन्धिकार्यं विधेयम्।
(viii) ‘चित्रगुः’ इत्यत्र विग्रहपूर्वकं समासनाम लिखत।
(ix) ‘अम्’ प्रत्याहारान्तर्गताः वर्णाः लेखनीयाः।
(x) ‘नीलम् उत्पलम्’ इत्यत्र समासनामोल्लेखपूर्वकं समासो विधेयः। (10 marks)
Q1b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितेषु वाक्येषु रेखाङ्कितपदेषु सूत्रोल्लेखपूर्वकं विभक्तिप्रयोगः संस्कृतभाषया निर्णेयः –
(i) फलं भुञ्जानो कीटं भुङ्क्ते।
(ii) जटाभिस्तापसः।
(iii) देवदत्ताय शतं धारयति।
(iv) धावतोऽश्वात् पतति।
(v) सर्वस्मिन्नात्मास्ति। (10 marks)
Q1c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितानां सूत्राणामर्थोदाहरणानि संस्कृतेन 3-4 पंक्तिभिः लेख्यानि–
(i) मुखनासिकावचनोऽनुनासिकः
(ii) उरण् रपरः
(iii) अव्ययीभावे चाऽकाले
(iv) नदीभिश्च
(v) जनिकर्तुः प्रकृतिः (10 marks)
Q1d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – संस्कृतव्याकरणशास्त्रे समासमाश्रित्य निबन्धो लेख्यः। (10 marks)
Q1e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – बाह्यप्रयत्नानां स्वरूपं विवेचनीयम्। (10 marks)
Q2a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – वैदिकसंस्कृतलौकिकसंस्कृतयोः को भेदः? भाषाविज्ञानदृष्ट्या विविच्यताम्। (20 marks)
Q2b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृतकाव्यशास्त्रे रससिद्धान्तस्य महत्त्वं किम्? सविस्तरं समालोच्यताम्। (15 marks)
Q2c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – आकृतिमूलकवर्गीकरणस्य स्वरूपं विवृणुत। (15 marks)
Q3a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “मेघे माघे गतं वयः”–उक्तिरियं समीक्ष्यताम्। (10 marks)
Q3b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृतनाट्यपरम्परायाः उत्पत्तिविकासयोः समीक्षा कार्या। (15 marks)
Q3c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित्”–उक्तिरियं विविच्यताम्। (15 marks)
Q3d. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – ‘लक्षणा’ कतिविधा? तस्याः स्वरूपं सोदाहरणं प्रतिपाद्यताम्। (10 marks)
Q4a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “रम्या रामायणी कथा”–उक्तिमिमां विमृशत। (20 marks)
Q4b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “उत्तरे रामचरिते भवभूतिर्विशिष्यते”–सोदाहरणं भणितिमिमां विशदयत। (15 marks)
Q4c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृतकाव्यशास्त्रे प्रतिपादिताः ‘काव्यहेतवः’ विवेचनीयाः। (15 marks)
Q5a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – षोडशसंस्काराणां नामोल्लेखपूर्वकं कोप्येकः संस्कारः विवेचनीयः। (10 marks)
Q5b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – पुरुषार्थचतुष्टयमाश्रित्य निबन्धो लेख्यः। (10 marks)
Q5c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – भारतीयज्ञानपरम्परायां वराहमिहिरस्य योगदानं समीक्ष्यताम्। (10 marks)
Q5d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – आश्रमव्यवस्थायाः वैशिष्ट्यं निरूप्यताम्। (10 marks)
Q5e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – स्थापत्यकलाक्षेत्रे प्राचीनभारतस्य योगदानं वर्णयत। (10 marks)
Q6a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – श्रीमद्भगवद्गीतायां प्रतिपादितम् आत्मस्वरूपं निरूप्यताम्। (20 marks)
Q6b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – शाङ्करवेदान्तानुसारं ब्रह्मस्वरूपं प्रतिपाद्यताम्। (15 marks)
Q6c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – सांख्यमतानुसारं प्रकृतेः स्वरूपं विवेचयत। (15 marks)
Q7a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – जैनदर्शनानुसारम् ‘अनेकान्तवादः’ इति विषयमाश्रित्य निबन्धो लेख्यः। (15 marks)
Q7b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – योगदर्शने प्रतिपादितम् ‘अष्टाङ्गयोगं’ सविस्तरं वर्णयत। (20 marks)
Q7c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – बौद्धदर्शनस्य ‘विज्ञानवादं’ विविच्यताम्। (15 marks)
Q8a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
भवतः सफलतायै जगत् भवतः आदरं कुर्यात्। साफल्यस्य किमपि विवरणम् अपेक्षितं न भवति। तथा च वैफल्येन तु विवरणं न अनुमन्यते। परं भवतः आत्मगौरवभावना तावती अपेक्षिता यत् सफलता वा भवतु विफलता वा तेन भवतः आत्मविश्वासः कदापि नष्टः न भवेत्। यदि भवान् 10% अवसरेषु सफलः भवति तर्हि भवान् सम्यगेव कुर्वन् अस्ति इति मन्तव्यम्। यदि भवान् सर्वदा शतप्रतिशतं सफलः एव भवति तर्हि भवता स्वमुद्दिश्य प्रश्नः कर्तव्यः यत् ‘मया पर्याप्तमात्रायाम् अपायाह्वानं (risk) स्वीक्रियमाणम् अस्ति उत न’ इति। यदि भवान् पर्याप्तमात्रायाम् अपायाह्वानं स्वीकुर्वन् नास्ति तर्हि भवान् बहून् अवसरान् त्यक्तवान् इत्यर्थः। सम्यक् चिन्तयन्तु परन्तु महत् पदं निक्षिपतु। यदि कश्चन दोषः भवति तर्हि ततः पाठं पठतु। जीवनं भवतः उपरि सर्वविधमालिन्यं क्षिपेत्। कौशलं नाम भवता तेन अधः पातितेन न भवितव्यम्। वयं गभीरतमकूपेभ्यः अपि बहिः आगन्तुं शक्नुयाम–अस्थगनेन, प्रयत्नस्य अत्यागेन च। मालिन्यम् उज्जहातु। पदमेकम् उपरि निदधातु।
(i) आत्मगौरवभावनया किं भवितुमर्हति?
(ii) स्वमुद्दिश्य कः प्रश्नः कर्तव्यः?
(iii) अपायाह्वानस्य स्वीकरणं किमर्थम् आवश्यकम्?
(iv) कुतः पाठः स्वीकरणीयः?
(v) गभीरतमकूपेभ्यः कथं बहिः आगन्तुं शक्नुयाम? (25 marks)
Q8b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
संस्कृतकक्षासु भाषारूपेण संस्कृतभाषायाः प्रयोगेण संस्कृतस्य लाभः। प्रयोगे अकृते सः लाभः नास्ति इति तावदेव खलु इति प्रश्नः भवेत्। अलाभः इति केवलं न, हानिः अपि भवति। संस्कृतस्य भाषारूपेण अप्रयोगेण अन्यभाषाप्रयोगेण च छात्राणां मनसि संस्कृतं कठिनं तया भाषितुं अशक्या, सा निर्जीवा इत्यादयः भावनाः दृढतराः भवन्ति। तादृशभावनिर्माणे वयमेव कारणीभूताः भवामः। एवम् अप्रयोगेण न केवलम् अलाभः अपितु संस्कृतभाषायाः हानिः एव। एवं संस्कृतकक्षासु अन्यभाषाप्रयोगः नाम संस्कृतभाषायाः ह्रासस्य मार्गकल्पनम् इव। अतः संस्कृतकक्षासु संस्कृतभाषाप्रयोगः पुण्याय भवेत्, संस्कृतभाषायाः अप्रयोगः अपुण्याय भवेत्। संस्कृतभाषायाः अन्यभाषामाध्यमेन पाठनं कठिनतररूपेण पाठनं दुरवगम्यस्य प्रौढसंस्कृतस्य प्रयोगः च संस्कृतस्य पातनाय इव। संस्कृतभाषायाः संस्कृतभाषामाध्यमेन पाठनम्, आकर्षकपद्धत्या पाठनम्, सरलतमसंस्कृतस्य प्रयोगः च भाविसंस्कृतभवनस्य एकैकस्याः इष्टिकायाः स्थापनम् इव।
(i) संस्कृतकक्षासु संस्कृतभाषायाः अप्रयोगेण कीदृशी हानिः भवति?
(ii) “संस्कृतभाषाप्रयोगः पुण्याय।” स्पष्टीक्रियताम्।
(iii) ‘संस्कृतं कठिनम्’ एतादृशी भावना छात्राणां मनसि कथम् आयाति?
(iv) संस्कृतस्य पातनाय के कारकाः भवन्ति?
(v) संस्कृतभवनस्य एकैकस्याः इष्टिकायाः स्थापनं केन मार्गेण भवितुमर्हति? (25 marks)
Paper II
Q1a. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम: “तावद् भा भारवेर्भाति यावन् माघस्य नोदयः” – इति मतस्य याथार्थ्यं सयुक्तिकं सोदाहरणं च प्रतिपाद्यताम् । (10 marks)
Q1b. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम: “नैषधं विद्वदौषधम्” – मतमिदं सयुक्तिकं सोदाहरणं च समीक्ष्यताम् । (10 marks)
Q1c. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम: “हृदयवसतिः पञ्चवाणस्तु बाणः” – इत्येतन्मतं सयुक्तिकं सोदाहरणं विशद्यताम् । (10 marks)
Q1d. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम: “क इह रघुकारे न रमते” – इति वचसः आशयो सोदाहरणं विव्रियताम् । (10 marks)
Q1e. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम: “दण्डिनः पदलालित्यम्” – इति मतस्य सार्थक्यं दण्डिविरचितग्रन्थदृष्ट्या निरूप्यताम् । (10 marks)
Q2a. अधोनिर्दिष्टानां विषयाणां सारगर्भितां समीक्षां कुरुत: गीतायां प्रतिपादितं भक्तियोगं सविस्तरं वर्णयत । (15 marks)
Q2b. अधोनिर्दिष्टानां विषयाणां सारगर्भितां समीक्षां कुरुत: कौटिलीयार्थशास्त्रस्य वर्तमानकालिकम् उपयोगित्वम् अस्ति न वेति सयुक्तिकं समीक्ष्यताम् । (15 marks)
Q2c. अधोनिर्दिष्टानां विषयाणां सारगर्भितां समीक्षां कुरुत: ईशोपनिषदि प्रतिपादितः ज्ञानकर्मसमन्वयो निरूप्यताम् । (20 marks)
Q3a. अधस्तात् निर्दिष्टानां विषयाणां समीक्षा विधेया: मृच्छकटिकप्रकरणे वर्णितं समाजचित्रं सविस्तरं सोदाहरणं प्रतिपाद्यताम् । (15 marks)
Q3b. अधस्तात् निर्दिष्टानां विषयाणां समीक्षा विधेया: “स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः” – इत्युक्तिं सयुक्तिकं विशदयत । (15 marks)
Q3c. अधस्तात् निर्दिष्टानां विषयाणां समीक्षा विधेया: अभिज्ञानशकुन्तलनाटकस्य चतुर्थाङ्कस्य विशेषत्वम् उपादेयत्वं च सविस्तरं प्रतिपादयत । (20 marks)
Q4a. अधस्तनानां विवेचनं संक्षेपेण संस्कृतभाषयैव देवनागरीलिप्यामेव च कर्तव्यम्: मेघदूतस्य पूर्वमेघे मेघस्य गमनमार्ग-वर्णनावसरे बाह्यप्रकृत्याः सौन्दर्यजातं यथा चित्रितं तत् सोदाहरणं सविस्तरं प्रकाशयत । (15 marks)
Q4b. अधस्तनानां विवेचनं संक्षेपेण संस्कृतभाषयैव देवनागरीलिप्यामेव च कर्तव्यम्: “जयदेवप्रणीते गीतगोविन्दे मधुरकोमलकान्तपदावल्या भक्तिरेव साधिता” – इति वचनं सयुक्तिकं समालोचयत । (15 marks)
Q4c. अधस्तनानां विवेचनं संक्षेपेण संस्कृतभाषयैव देवनागरीलिप्यामेव च कर्तव्यम्: पञ्चतन्त्रस्य परिचयं प्रदाय संस्कृतकथासाहित्य-जगति तस्य अवस्थानम् उपादेयत्वं च वर्णयत । (20 marks)
Q5a. नागराक्षरैः संस्कृतभाषया प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्: क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥ (10 marks)
Q5b. नागराक्षरैः संस्कृतभाषया प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्: अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः ॥ (10 marks)
Q5c. नागराक्षरैः संस्कृतभाषया प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्: यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दोग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ (10 marks)
Q5d. नागराक्षरैः संस्कृतभाषया प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्: निसर्गदुर्बोधमबोधविकल्वाः क्व भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ (10 marks)
Q5e. नागराक्षरैः संस्कृतभाषया प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्: विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः ।
दूरोदरच्छद्मजितां समीहते नयेन जेतुं जगतीं सुयोधनः ॥ (10 marks)
Q6a. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया: नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥ (15 marks)
Q6b. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया: उपवासकृशां दीनां निःश्वसन्तीं पुनः पुनः ।
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् ॥ (15 marks)
Q6c. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया: यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ॥ (20 marks)
Q7a. अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः: जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ (15 marks)
Q7b. अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः: बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ (15 marks)
Q7c. अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः: आत्मविडम्बनाञ्चानुजीविना जनेन क्रियमाणामभिनन्दन्ति, मनसा देवताध्यारोपणप्रतारणासम्भूतसम्भावनोपहताश्चान्तः प्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं सम्भावयन्ति । (20 marks)
Q8a. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या: कः कं शक्तो रक्षितुं मृत्युकाले
रज्जुच्छेदे के घटं धारयन्ति?
इत्थं लोकस्तुल्यधमी वनानां
काले काले छिद्यते रुह्यते च ॥ (15 marks)
Q8b. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या: अर्थो हि कन्या परकीय एव ।
तामद्य संप्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा ॥ (15 marks)
Q8c. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या: शैशवात् प्रभृति पोषितां प्रियां
सौहृदादपृथगाश्रयामिमाम् ।
छद्मना परिददामि मृत्यवे
सौनिके गृहशकुन्तिकामिव ॥ (20 marks)
Spotted something wrong?
If a question is in the wrong unit or a match looks wrong, please report an error.
Related: Overall Sanskrit Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

