Menu Close

Sanskrit Literature Optional 2021 Paper Analysis

Every question from the Sanskrit Literature Optional papers of UPSC Mains 2021, placed in its syllabus unit and checked against all questions asked from 2013 to 2020. See what was familiar, what came back and what was new.

Other years:

What stood out in 2021

  • More marks than usual: व्याकरणम् (58 marks, against an average of 37).
  • Fewer marks than usual: साहित्येतिहासः काव्यशास्त्रं साहित्यविधाश्च (100 marks, against an average of 119).
  • 11 questions were close repeats of an earlier paper: Q5a (Paper II), first seen in 2019; Q5b (Paper II), first seen in 2018; Q5d (Paper II), first seen in 2013; Q6a (Paper II), first seen in 2014; Q6b (Paper II), first seen in 2016; Q6c (Paper II), first seen in 2009; Q7a (Paper II), first seen in 2016; Q7c (Paper II), first seen in 2013; Q8a (Paper II), first seen in 2012; Q8b (Paper II), first seen in 2016; Q8c (Paper II), first seen in 2011.
  • Every question came from a topic UPSC had asked recently.

Which units got the marks in 2021

Marks asked from each unit in 2021 (dark bar) against its average for 2013–2020 (grey bar).

Paper I

Paper II

A question that fits two units is split equally between them.

Cover of the UPSC Prelims Topic-wise PYQ book with detailed explanations

From the Optional Province team

Preparing for Prelims too?

Our UPSC Prelims Topic-wise PYQ Book covers every Prelims question with detailed explanations, so you can see exactly where UPSC asks from. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper I

Q1a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोनिर्दिष्टाः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः –
(i) ‘जश्’ प्रत्याहारान्तर्गतान् वर्णान् दर्शयत।
(ii) का अनुनासिकसंज्ञा? सूत्रनिर्देशपूर्वकं व्याख्यायताम्।
(iii) संयोगसंज्ञासूत्रं किम्? तस्य कः अर्थः? व्याख्यायताम्।
(iv) सुधी + उपास्यः –केन सूत्रेण ईकारस्थाने यकारादेशः भवति?
(v) तल्लयः –सूत्रोल्लेखपूर्वकं सन्धिविच्छेदः विधेयः।
(vi) यवेभ्यो गां वारयति–रेखाङ्कितपदस्य सकारणं विभक्तिं निरूपयत।
(vii) रूपस्य योग्यम्–समासं समासनाम च दर्शयत।
(viii) मातृसदृशः –विग्रहं समासनाम च दर्शयत।
(ix) बालिका गृहं गच्छति–वाच्यपरिवर्तनं क्रियताम्।
(x) तेन किं कृतम्?–वाच्यपरिवर्तनं क्रियताम्। (10 marks)

Asked 15 times in 2013–2020, most recently in 2020.

Q1b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोनिर्दिष्टेषु वाक्येषु रेखाङ्कितपदानां ससूत्रं विभक्तिनिरूपणं संस्कृतभाषया करणीयम् –
(i) द्रोणो व्रीहिः।
(ii) सिंहो वनम् अध्यास्ते।
(iii) मासेन व्याकरणम् अधीतम्।
(iv) पुष्पेभ्यः स्पृहयति।
(v) ग्रामस्य दक्षिणेन। (10 marks)

Asked 16 times in 2013–2020, most recently in 2020.

Q1c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितानां सूत्राणाम् अर्थोदाहरणानि संस्कृतभाषया 3-4 पंक्तिभिः प्रदेयानि–
(i) हलन्त्यम्
(ii) आद् गुणः
(iii) अकः सवर्णे दीर्घः
(iv) दिवः कर्म च
(v) न निर्धारणे (10 marks)

Asked 15 times in 2013–2020, most recently in 2020.

Q1d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – संस्कृतव्याकरणशास्त्रानुसारं वर्णानां स्थानप्रयत्नविवेचनं करणीयम्। (10 marks)

Asked 15 times in 2013–2020, most recently in 2020.

Q1e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – कर्मधारयसमासमाश्रित्य एको निबन्धो लेख्यः। (10 marks)

Asked 5 times in 2013–2020, most recently in 2020.

Q2a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – वैदिकभाषायां सुबन्तप्रयोगवैशिष्ट्यं दर्शयत। (20 marks)

Asked 7 times in 2013–2020, most recently in 2020.

Q2b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – लौकिकसंस्कृतभाषायां कारकमाश्रित्य निबन्धं लिखत। (15 marks)

Asked 16 times in 2013–2020, most recently in 2020.

Q2c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – भाषापरिवारसंरचने संस्कृतस्य योगदानं समीक्ष्यताम्। (15 marks)

Asked 12 times in 2013–2020, most recently in 2020.

Q3a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृतसाहित्यसमीक्षणे अलंकारसिद्धान्तस्य इतिहासं वर्णयत। (15 marks)

Asked 17 times in 2013–2020, most recently in 2020.

Q3b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – महाभारते भीष्मस्य भूमिका समीक्षणीया। (15 marks)

Asked 6 times in 2013–2020, most recently in 2020.

Q3c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृत-नाट्यसाहित्ये भासस्य स्थानं विमृशत। (10 marks)

Asked 10 times in 2013–2020, most recently in 2020.

Q3d. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृत-खण्डकाव्यस्य विकासं वर्णयत। (10 marks)

Asked 6 times in 2013–2020, most recently in 2019.

Q4a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “गीता सुगीता कर्तव्या”–उक्तिमिमां सोदाहरणं विशदयत। (20 marks)

Asked 6 times in 2013–2020, most recently in 2020.

Q4b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “कविकुलगुरुः कालिदासो विलासः”–सोदाहरणं भणितिमिमां विशदयत। (15 marks)

Asked 8 times in 2013–2020, most recently in 2020.

Q4c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृतसाहित्ये ‘मुद्राराक्षस’नाटकस्य स्थानं विमृशत। (15 marks)

Asked 10 times in 2013–2020, most recently in 2020.

Q5a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – पुरुषार्थेषु धर्मस्य वैशिष्ट्यं समीक्ष्यताम्। (10 marks)

Asked 7 times in 2013–2020, most recently in 2020.

Q5b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – विवाहसंस्कारस्य महत्त्वं वर्णयत। (10 marks)

Asked 6 times in 2013–2020, most recently in 2020.

Q5c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – ब्रह्मचर्याश्रमम् अध्ययनविधिं च वर्णयत। (10 marks)

Asked 5 times in 2013–2020, most recently in 2020.

Q5d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – प्राचीनभारतस्य चित्रकलामधिकृत्य एकं निबन्धं लिखत। (10 marks)

Asked 8 times in 2013–2020, most recently in 2019.

Q5e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – प्राचीनभारतस्य मूर्त्तिकलायाः वर्णनं कुरुत। (10 marks)

Asked 8 times in 2013–2020, most recently in 2019.

Q6a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – अद्वैतवेदान्तदर्शनम् अनुसृत्य मायां वर्णयत। (20 marks)

Asked 8 times in 2013–2020, most recently in 2020.

Q6b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – सांख्यदर्शनानुसारं पुरुषस्य स्वरूपं निरूपयत। (15 marks)

Asked 7 times in 2013–2020, most recently in 2020.

Q6c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – बौद्धदर्शनस्य अष्टाङ्गमार्गान् वर्णयत। (15 marks)

Asked 6 times in 2013–2020, most recently in 2020.

Q7a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – प्राचीनभारतस्य नगरयोजनाम् आश्रित्य एकं निबन्धं रचयत। (20 marks)

Asked 13 times in 2013–2020, most recently in 2020.

Q7b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – भारतीयदर्शनस्य आस्तिकसम्प्रदायेषु मोक्षस्य स्वरूपं तत्प्राप्त्युपायान् च वर्णयत। (15 marks)

Asked 8 times in 2013–2020, most recently in 2020.

Q7c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – योगशास्त्रस्य उपकारितां वर्णयत। (15 marks)

Asked 4 times in 2013–2020, most recently in 2017.

Q8a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं पठित्वा तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन प्रदत्त। प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्–
अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा। तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति। तत्र च प्रभूता जाम्बूनदमया हंसास्तिष्ठन्ति। षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति। अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः। तैश्चोक्तः –अस्माकं मध्ये त्वया न वस्तव्यं येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः। एवं च किं बहुना परस्परं द्वैधमुत्पन्नम्। स च राज्ञः शरणं गतोऽब्रवीत्–देव! एते पक्षिण एवं वदन्ति यदस्माकं राजा किं करिष्यति। न कस्याप्यावासं दद्मः। मया चोक्तम्–न शोभनं युष्माभिरभिहितम्। अहं गत्वा राज्ञे निवेदयिष्यामि। एवं स्थिते देवः प्रमाणम्। ततो राजा भृत्यानब्रवीत्–भो भोः! गच्छत। सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रमानयत। राजादेशानन्तरमेव प्रचेलुस्ते। लगुडहस्तान् राजपुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्–भोः स्वजनाः! न शोभनमापतितम्। ततः सर्वैरेकमतीभूय शीघ्रमुत्पतितव्यम्। तैश्च तथानुष्ठितम्।
(i) पद्मसरः कस्य कथं च सुरक्षितम्?
(ii) तत्र के किं कुर्वन्तः तिष्ठन्ति?
(iii) आगतेन बृहत्पक्षिणा तेषां कीदृशं सम्भाषणं जातम्?
(iv) बृहत्पक्षी राज्ञे किं निवेदितवान्?
(v) राजादेशानन्तरं किं किमभूत्? (25 marks)

Asked 16 times in 2013–2020, most recently in 2020.

Q8b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं पठित्वा तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन प्रदत्त। प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्–
मित्रगुप्तोऽप्याचचक्षे–सोऽहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वनगरस्य बाह्योद्याने महान्तमुत्सवसमाजमालोकयम्। तत्र क्वचिदतिमुक्तकलतामण्डपे कमपि वीणावादनेनात्मानं विनोदयन्तमुत्कण्ठितं युवानमद्राक्षम्, अप्राक्षं च–“भद्र को नामायमुत्सवः? किमर्थं वा समारब्धः? केन वा निमित्तेन उत्सवमनादृत्य एकान्ते भवानुत्कण्ठित इव वीणाद्वितीयस्तिष्ठति?” इति। सोऽभ्यधत्त–“सौम्य सुह्मपतिस्तुङ्गधन्वा नामानपत्यः प्रार्थितवान् अमुष्मिन् आयतने वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम्।” अनया च अस्मै प्रतिशयिताय स्वप्ने समादिष्टम्–“समुत्पत्स्यते तव एकः पुत्रः, जनिस्यते चैका दुहिता। स पुत्रो भगिन्याः आदरं करिष्यति। सा तु सप्तमाद् वर्षादारभ्य आपरिणयनात् प्रतिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तुः लाभाय मां समाराधयतु। यं चाभिलषेत् सा अमुष्मै देया। स चोत्सवः कन्दुकोत्सवनामास्तु” इति।
(i) मित्रगुप्तः किं कुर्वन् उत्सवं दृष्टवान्?
(ii) उद्याने स कीदृशं युवानम् अपश्यत्?
(iii) तं युवानं मित्रगुप्तः किं पृष्टवान्?
(iv) स युवकः किम् अभिहितवान्?
(v) सुह्मपतिः स्वप्ने कं समादेशं प्राप्तवान्? (25 marks)

Asked 16 times in 2013–2020, most recently in 2020.
Cover of the UPSC Mains Topic-wise and Year-wise PYQs book (2013–2026)

From the Optional Province team

Strengthen your GS papers

Our UPSC Mains Topic-wise & Year-wise PYQ Book (2013–2026) maps every GS question to the syllabus, so you know what UPSC asks and how often. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper II

Q1a. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “उदात्त-सुकोमलकल्पनाकलितत्वात् कुमारसम्भवमाधुनिकरुचिं नितान्तं परिप्रीणाति” इति सोदाहरणं प्रतिपादयत। (10 marks)

Asked 3 times in 2013–2020, most recently in 2019.

Q1b. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “नारिकेलफलसम्मितं वचो भारवेः”–इति मतस्य याथार्थ्यं सयुक्तिकं सोदाहरणं च प्रतिपाद्यताम्। (10 marks)

Asked 6 times in 2013–2020, most recently in 2020.

Q1c. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “उदिते नैषधे काव्ये क्व माघः क्व च भारविः”–मतमिदं सयुक्तिकं सोदाहरणं च समीक्ष्यताम्। (10 marks)

Asked 5 times in 2013–2020, most recently in 2020.

Q1d. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “दशकुमारचरितं साहित्यिकदृष्ट्या वस्तुत एका परमप्रशंसनीया रचनास्ति” इति समीक्ष्यताम्। (10 marks)

Asked 5 times in 2013–2020, most recently in 2019.

Q1e. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “नवसर्गगते माघे नवशब्दो न विद्यते”–सूक्तिमेतां सयुक्तिकं सोदाहरणञ्च प्रतिपाद्यताम्। (10 marks)

Asked 3 times in 2013–2020, most recently in 2019.

Q2a. अधोनिर्दिष्टानां विषयाणां सारगर्भितां समीक्षां कुरुत– ईशोपनिषदि प्रतिपादितं ‘ब्रह्म’-स्वरूपं निरूप्यताम्। (15 marks)

Asked 8 times in 2013–2020, most recently in 2020.

Q2b. अधोनिर्दिष्टानां विषयाणां सारगर्भितां समीक्षां कुरुत– “यन्मृच्छकटिकमुत्तमां कोटिं नयति तदस्ति तस्य कथावस्तु” इति समीक्ष्यताम्। (15 marks)

Asked 3 times in 2013–2020, most recently in 2020.

Q2c. अधोनिर्दिष्टानां विषयाणां सारगर्भितां समीक्षां कुरुत– कथमिदं महर्षिवाल्मीकिप्रणीतं सुन्दरकाण्डं ‘सुन्दर’मस्ति? इति विशदं समालोचयत। (20 marks)

Asked 4 times in 2013–2020, most recently in 2019.

Q3a. अधस्तात् निर्दिष्टानां विषयाणां समीक्षा विधेया– “काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला”–इत्येषा सूक्तिः युक्तिपुरस्सरं विवेचनीया। (15 marks)

Asked 7 times in 2013–2020, most recently in 2019.

Q3b. अधस्तात् निर्दिष्टानां विषयाणां समीक्षा विधेया– “भारतामृतसर्वस्वं गीता”–अस्याशयः स्पष्टीकरणीयः। (15 marks)

Asked 8 times in 2013–2020, most recently in 2020.

Q3c. अधस्तात् निर्दिष्टानां विषयाणां समीक्षा विधेया– “नीतिशतके प्रतिबिम्बितः भर्तृहरेः अनुभवसंसारः” इति सोदाहरणं प्रतिपादयत। (20 marks)

Asked 4 times in 2013–2020, most recently in 2018.

Q4a. अधस्तनानां विवेचनं संक्षेपेण संस्कृतभाषयैव देवनागरीलिप्यामेव च कर्तव्यम्– “मेघदूतं प्रकृतेरनुपमा रङ्गशालेव भाति”–इति सोदाहरणं समीक्ष्यताम्। (15 marks)

Asked 6 times in 2013–2020, most recently in 2019.

Q4b. अधस्तनानां विवेचनं संक्षेपेण संस्कृतभाषयैव देवनागरीलिप्यामेव च कर्तव्यम्– “स्पष्टभावरसा चित्रैः पदन्यासैः प्रवर्तिता।
नाटकेषु नटस्त्रीव भारती भवभूतिना॥”
सोदाहरणं समीक्ष्यताम्। (15 marks)

Asked 4 times in 2013–2020, most recently in 2020.

Q4c. अधस्तनानां विवेचनं संक्षेपेण संस्कृतभाषयैव देवनागरीलिप्यामेव च कर्तव्यम्– “अमरुककवेरेकः श्लोकः प्रबन्धशतायते” इति सयुक्तिकं सोदाहरणं च समीक्ष्यताम्। (20 marks)

Asked 3 times in 2013–2020, most recently in 2020.

Q5a. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ (10 marks)

Asked before: a similar question came in 2019.

Q5b. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम्।
प्रांशुलभ्ये फले लोभादुद्बाहुरिव वामनः॥ (10 marks)

Asked before: a similar question came in 2018.

Q5c. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– अस्त्युत्तरस्यां दिशि देवतात्मा,
हिमालयो नाम नगाधिराजः।
पूर्वापरौ तोयनिधी वगाह्य,
स्थितः पृथिव्या इव मानदण्डः॥ (10 marks)

Asked 12 times in 2013–2020, most recently in 2020.

Q5d. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– स किंसखा साधु न शास्ति योऽधिपं,
हितान्न यः संशृणुते स किम्प्रभु।
सदानुकूलेषु हि कुर्वते रतिं,
नृपेष्वमात्येषु च सर्वसम्पदः॥ (10 marks)

Asked before: a similar question came in 2013.

Q5e. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– तथापि जिह्मः स भवज्जिगीषया,
तनोति शुभ्रं गुणसम्पदा यशः।
समुन्नयन् भूतिमनार्यसंगमाद्,
वरं विरोधोऽपि समं महात्मभिः॥ (10 marks)

Asked 13 times in 2013–2020, most recently in 2020.

Q6a. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरः॥ (15 marks)

Asked before: a similar question came in 2014.

Q6b. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– नासतो विद्यते भावो नाभावो विद्यते सतः।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः॥ (20 marks)

Asked before: a similar question came in 2016.

Q6c. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयति॥ (15 marks)

Asked before: a similar question came in 2009.

Q7a. अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः – धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु॥ (15 marks)

Asked before: a similar question came in 2016.

Q7b. अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः – मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्।
पिनद्धां धूमजालेन शिखामिव विभावसोः॥ (15 marks)

Asked 8 times in 2013–2020, most recently in 2020.

Q7c. अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः – गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः। (20 marks)

Asked before: a similar question came in 2013.

Q8a. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– किं वक्ष्यतीति हृदयं परिशङ्कितं मे
कन्या मयाप्यपहृता न च रक्षिता सा।
भाग्यैश्चलैर्महदवाप्तगुणोपघातः
पुत्रः पितुर्जनितरोष इवास्मि भीतः॥ (15 marks)

Asked before: a similar question came in 2012.

Q8b. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम्।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः॥ (15 marks)

Asked before: a similar question came in 2016.

Q8c. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– म्लानस्य जीवकुसुमस्य विकासनानि
सन्तर्पणानि सकलेन्द्रियमोहनानि।
एतानि ते सुवचनानि सरोरुहाक्षि
कर्णामृतानि मनसश्च रसायनानि॥ (20 marks)

Asked before: a similar question came in 2011.

Spotted an error? Tell us.

We classify every PYQ with care, but mistakes can slip in. If a question is in the wrong topic, has a typo, the wrong year, or is missing, let us know. We review every report and update the page.

Report an Error

Spotted something wrong?

If a question is in the wrong unit or a match looks wrong, please report an error.

Related: Overall Sanskrit Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted