Here are all 55 questions on खण्डः ख, वर्गः 3: मेघदूतम्, नीतिशतकम्, कादम्बरी asked in UPSC Sanskrit Literature Optional Paper II (2009–2026), arranged under the 3 topics of this unit. Within each topic the latest questions come first.
Each question ends with a code such as [2024/15m/3b] – the year, the marks, the word limit (where UPSC set one) and the question number in the paper.

7.1] ‘मेघदूतम्’
18 questions
अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श॥ [2026/15m/7a]अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – तां चावश्यं दिवसगणनातत्परामेकपत्नी-
मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम्।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपाति प्रणयि हृदयं विप्रयोगे रुणद्धि॥ [2025/15m/7a]अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः,
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्,
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥ [2024/15m/7a]अधोलिखितानां भावार्थः सन्दर्भपुरस्सरं प्रतिपादनीयः – सन्तप्तानां त्वमसि शरणं तत्पयोद! प्रियायाः,
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां,
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या॥ [2023/15m/7a]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः: जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याञ्चा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ [2022/15m/7a]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः – धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु॥ [2021/15m/7a]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-
रन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ [2020/15m/7a]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । मन्द मन्द नुदात पवनश्चानुकूला यथा त्वा
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ [2019/15m/7a]अधोलिखितानाम् आशयः ससन्दर्भं प्रतिपादनीयः । संतप्तानां त्वमसि शरणं तत्पयोद प्रियायाः
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य ।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां
बाह्योद्यानस्थित-हरशिरश्चन्द्रिका-धौतहर्म्या ॥ [2018/15m/7a]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । जातं वंशे भुवनविदिते पुष्करावर्तकानां
जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः ।
तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतोऽहं
याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥ [2017/17m/7a]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः– धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः
संदेशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु॥ [2016/17m/7a]अधोलिखितानामाशयं ससन्दर्भं प्रतिपादयत । मन्दं मन्दं नुदति पवनश्चानुकूलो यथा त्वां
वामश्चायं नदति मधुरं चातकस्ते सगन्धः ।
गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः
सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ [2015/17m/7a]अधोलिखितानां तात्पर्यार्थं ससन्दर्भं प्रतिपाद्यताम्: तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श॥ [2014/15m/7b]अधोलिखितानामाशयं ससन्दर्भं प्रतिपाद्यताम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥ [2013/17m/7a]अधोलिखितानामाशयं सप्रकरणं विशदयत । कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु । [2012/20m/7a]
अधोलिखितानामाशयं ससन्दर्भं प्रतिपाद्यताम् – मेघालोके भवति सुखिनोऽप्यन्यथावृत्तिचेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे । [2011/20m/7a]अधोलिखितानाम् आशयं ससन्दर्भं स्पष्टीकुरुत – आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
सद्यःपातिप्रणयिहृदयं विप्रयोगे रुणद्धि ॥ [2010/20m/7a]अधोलिखितानामाशयं ससन्दर्भं स्पष्टीकुरुत– याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा। [2009/20m/7b]
7.2] ‘नीतिशतकम्’
18 questions
अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – स्वायत्तमेकान्तगुणं विधात्रा
विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानाम्॥ [2026/15m/7b]अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः।
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम्॥ [2025/15m/7b]अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति॥ [2024/15m/7b]अधोलिखितानां भावार्थः सन्दर्भपुरस्सरं प्रतिपादनीयः – यदाऽकिञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं,
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।
यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं,
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥ [2023/15m/7b]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः: बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥ [2022/15m/7b]अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्माऽपि तं नरं न रञ्जयति॥ [2021/15m/6c]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्
समुद्रमपि संतरेत् प्रचलदूर्मिमालाकुलम् ।
भुजङ्गमपि कोपितं शिरसि पुष्पवद् धारयेन्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ [2020/15m/7b]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । स्वायत्तमेकान्तगुणं विधात्रा
विनिर्मितं छादनमज्ञतायाः ।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानाम् ॥ [2019/15m/7b]अधोलिखितानाम् आशयः ससन्दर्भं प्रतिपादनीयः । लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन् शशविषाणमासादयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ [2018/20m/7c]अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्यानं कार्यम् । यदा किंचिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किंचित्किंचिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ [2017/18m/8c]अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः– अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥ [2016/16m/7c]प्रसंगनिर्देशपूर्वकं व्याख्या कार्या– स्वायत्तमेकान्तहितं विधात्रा
विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानाम्॥ [2016/16m/8c]अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या । यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ [2015/16m/8c]अधोलिखितानां तात्पर्यार्थं ससन्दर्भं प्रतिपाद्यताम्: अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलव-दुर्विदग्धं ब्रह्मापि नरं न रञ्जयति॥ [2014/20m/7a]अधोलिखितानामाशयं सप्रकरणं विशदयत । धिक् तां च तं च मदनं च इमां च मां च । [2012/20m/7b]
अधोलिखितानामाशयं ससन्दर्भं प्रतिपाद्यताम् – यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥ [2011/20m/7b]अधोलिखितानाम् आशयं ससन्दर्भं स्पष्टीकुरुत – भुजङ्गमपि कोपितं शिरसि पुष्पवद् धारयेत्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् । [2010/20m/7b]अधोलिखितानामाशयं ससन्दर्भं स्पष्टीकुरुत– अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति॥ [2009/20m/7a]
7.3] ‘कादम्बरी’
19 questions
अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – आलोकयतु तावत् कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम्। इयं हि सुभटखड्गमण्डलोत्पलवनविभ्रमभ्रमरी लक्ष्मीः क्षीरसागरात् पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैः श्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेर्नैष्ठुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्नानि गृहीत्वैवोद्गता। [2026/20m/7c]
अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः। गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य। इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरम् उपजनयति। [2025/20m/7c]
अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – तथा हि, अभिषेकसमय एव चैषां मङ्गलकलसजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्रसम्मार्जनीभिरिवापनीयते क्षान्तिः, उष्णीषपट्टबन्धेनेवाच्छाद्यते जरागमनस्मरणम्, आतपत्रमण्डलेनेवापवार्यते परलोकदर्शनम्, चामरपवनैरिवापह्रियते सत्यवादिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपटपल्लवैरिव मरामृश्यते यशः। [2024/20m/7c]
अधोलिखितानां भावार्थः सन्दर्भपुरस्सरं प्रतिपादनीयः – तात! चन्द्रापीड! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। केवलञ्च निसर्गत एवाऽभानुभेद्यमरत्नालोकच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम्। [2023/20m/7c]
अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः: आत्मविडम्बनाञ्चानुजीविना जनेन क्रियमाणामभिनन्दन्ति, मनसा देवताध्यारोपणप्रतारणासम्भूतसम्भावनोपहताश्चान्तः प्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं सम्भावयन्ति । [2022/20m/7c]
अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः – गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः। [2021/20m/7c]
अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । अपगतमले हि मनसि स्फटिकमणाविव रजनिकरगभस्तयो विशन्ति सुखेनोपदेशगुणाः । गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरम् उपजनयति । [2020/20m/7c]
अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । यैवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । [2019/20m/7c]
अधोनिर्दिष्टानां विषयाणामुदाहरणमुखेन पर्यालोचनं क्रियताम् । (150 शब्दपरिमितमेव) शुकनासोपदेशस्य उपयोगिता आधुनिकसन्दर्भे समीक्ष्यताम् । [2018/10m/1e]
अधोलिखितानाम् आशयः ससन्दर्भं प्रतिपादनीयः । स्वल्पसत्त्वमुन्मत्तीकरोति । सरस्वतीपरिगृहीतमीर्ष्ययेव नालिङ्गति जनम् । गुणवन्तमपवित्रमिव न स्पृशति । उदारसत्त्वममङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमिव न पश्यति । अभिजातमहिमिव लङ्घयति । शूरं कण्टकमिव परिहरति । दातारं दुःस्वप्नमिव न स्मरति । मनस्विनमुन्मत्तमिवोपहसति ॥ [2018/15m/7b]
अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः । गर्भेश्वरत्वमभिनवयौवनत्वमप्रतिमरूपत्वमानुषशक्तित्वं चेति महतीयं खल्वर्थपरंपरा । सर्वाविनयानामेकैकमप्येषामायतनम्, किमुत समवायः । यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । [2017/16m/7c]
अधोलिखितानामाशयः ससंदर्भं प्रतिपादनीयः– यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति। तथाहि। इयं संवर्धनवारिधारा तृष्णाविषवल्लीनाम्, व्याधगीतिरिन्द्रियमृगाणाम्, परामर्शधूमलेखा सच्चरितचित्राणाम्, संगीतशाला भ्रूविकारनाट्यानाम्, प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, वध्यशाला साधुभावस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य। [2016/17m/7b]
अधोलिखितानामाशयं ससन्दर्भं प्रतिपादयत । यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधवलतापि सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजोभ्रान्तिरतिदूरम् आत्मेच्छया यौवनसमये पुरुषं प्रकृतिः । [2015/17m/7b]
अधोलिखितानां तात्पर्यार्थं ससन्दर्भं प्रतिपाद्यताम्: आलोकयतु तावत् कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम्। इयं हि खड्गमण्डलोत्पल-वन-विभ्रम-भ्रमरी लक्ष्मीः क्षीरसागरात् पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैः श्रवसश्चञ्चलताम्, कालकूटात् मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेर्नैष्ठुर्य्यम् इत्येतानि सहपासपरिचयवशाद् विरहविनोदचिह्नानि गृहीत्वेवोद्गता॥ [2014/15m/7c]
अधोलिखितानामाशयं ससन्दर्भं प्रतिपाद्यताम् । गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षममजलं स्नानम्, अनुपजातपलितादिवैरुप्यमजरं वृद्धत्वम्, अनारोपितमेदोदोषं गुरुकरणम्, असुवर्णविरचनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः । विशेषेण राज्ञाम् । विरला हि तेषामुपदेष्टारः । [2013/16m/7c]
अधोलिखितानामाशयं सप्रकरणं विशदयत । इयं हि सुभटखड्गमण्डलोत्पलवनविभ्रमभ्रमरी लक्ष्मीः क्षीरसागरात्पारिजातपल्लवेभ्यो रागमिन्दुशकलादेकान्तवक्रतामुच्चैःश्रवसश्चञ्चलतां कालकूटान्मोहनशक्तिं मदिराया मदं कौस्तुभमणेरतिनैष्ठुर्यमित्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्नानि गृहीत्वेवोद्गता । [2012/20m/7c]
अधोलिखितानामाशयं ससन्दर्भं प्रतिपाद्यताम् – गुरुवचनममलमपि सलिलमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति । हरति च सकलम् अतिमलिनमप्यन्धकारमिव दोषजातं प्रदोषसमयनिशाकर इव । [2011/20m/7c]
अधोलिखितानाम् आशयं ससन्दर्भं स्पष्टीकुरुत – अपरिणामोपशमो दारुणो लक्ष्मीमदः । कष्टमनञ्जनवर्त्तिसाध्यमपरम्, ऐश्वर्य्यतिमिरान्धत्वम् । अशिशिरोपचारहार्य्योऽतितीव्रः दर्पदाहज्वरोष्मा । सततममूलमन्त्रशम्यः विषमो विषयविषास्वादमोहः । [2010/20m/7c]
अधोलिखितानामाशयं ससन्दर्भं स्पष्टीकुरुत– इयं हि खड्गमण्डलोत्पलवनविभ्रमभ्रमरी लक्ष्मीः क्षीरसागरात्पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैःश्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेर्नैष्ठुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्नानि गृहीत्वैवोद्गता। [2009/20m/7c]
« Previous: खण्डः ख, वर्गः 2: उपनिषद्, गीता, रामायणम् · Next: खण्डः ख, वर्गः 4: रूपकांशाः »
Back to: Sanskrit Literature Optional PYQs – Topic-wise
Last updated: 2 November 2026

