Menu Close

Sanskrit Literature Optional 2023 Paper Analysis

Every question from the Sanskrit Literature Optional papers of UPSC Mains 2023, placed in its syllabus unit and checked against all questions asked from 2013 to 2022. See what was familiar, what came back and what was new.

Other years:

What stood out in 2023

  • More marks than usual: भारतीयदर्शनस्य प्रवृत्तयः (100 marks, against an average of 85).
  • Fewer marks than usual: साहित्येतिहासः काव्यशास्त्रं साहित्यविधाश्च (100 marks, against an average of 117); भारतीयसंस्कृतेः मूलतत्त्वानि (50 marks, against an average of 63).
  • 10 questions were close repeats of an earlier paper: Q5a (Paper II), first seen in 2011; Q5b (Paper II), first seen in 2014; Q5c (Paper II), first seen in 2019; Q5d (Paper II), first seen in 2019; Q5e (Paper II), first seen in 2013; Q6a (Paper II), first seen in 2010; Q6b (Paper II), first seen in 2015; Q7a (Paper II), first seen in 2018; Q7b (Paper II), first seen in 2011; Q8c (Paper II), first seen in 2016.
  • One question came from topics that were new or had not been asked for six years or more.

Which units got the marks in 2023

Marks asked from each unit in 2023 (dark bar) against its average for 2013–2022 (grey bar).

Paper I

Paper II

A question that fits two units is split equally between them.

Cover of the UPSC Prelims Topic-wise PYQ book with detailed explanations

From the Optional Province team

Preparing for Prelims too?

Our UPSC Prelims Topic-wise PYQ Book covers every Prelims question with detailed explanations, so you can see exactly where UPSC asks from. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper I

Q1a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोनिर्दिष्टाः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः –
(i) अनुस्वारः, ह्, व्-वर्णानामुच्चारणस्थानानि लेख्यानि।
(ii) ‘मम मित्राणि ग्रामं गच्छन्ति’–वाच्यपरिवर्तनं क्रियताम्।
(iii) ‘अणुदित्सवर्णस्य चाऽऽप्रत्ययः’ अत्र अण्प्रत्याहारान्तर्गताः वर्णाः लेखनीयाः।
(iv) प्रयोगे संवृतप्रयत्नवान् स्वरः कः?
(v) ‘प्रकाशेन तायते’–वाच्यं परिवर्तयत।
(vi) ‘पञ्चगङ्गम्’ इत्यत्र विग्रहपूर्वकं समासनाम लिखत।
(vii) ‘स्त्री प्रमाणी यस्य सः’ इत्यत्र समासं समासनाम च दर्शयत।
(viii) टि संज्ञा का? केन नियमेन विधीयत एषा?
(ix) ‘षण्णवतिः’ इत्यत्र सूत्रोल्लेखपूर्वकं सन्धिविच्छेदः विधेयः।
(x) ‘अहो ईशाः’ इत्यत्र सूत्रोल्लेखपूर्वकं सन्धिस्थितिः विशदनीया। (10 marks)

Asked 21 times in 2013–2022, most recently in 2022.

Q1b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितेषु वाक्येषु रेखाङ्कितपदेषु सूत्रोल्लेखपूर्वकं विभक्तिप्रयोगः संस्कृतभाषया निर्णेयः –
(i) रामेण बाणेन हतो बाली।
(ii) हरिः वैकुण्ठम् अधिशेते।
(iii) सुधां क्षीरनिधिं मथ्नाति।
(iv) एधोदकस्य उपस्कुरुते।
(v) वनस्य अन्तिके मा याहि। (10 marks)

Asked 19 times in 2013–2022, most recently in 2022.

Q1c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितानां सूत्राणामर्थोदाहरणानि संस्कृतेन 3-4 पंक्तिभिर्लेख्यानि–
(i) उपदेशेऽजनुनासिक इत्
(ii) पूर्वत्रासिद्धम्
(iii) अपवर्गे तृतीया
(iv) कर्तृकरणे कृता बहुलम्
(v) तद्धितार्थोत्तरपदसमाहारे च (10 marks)

Asked 21 times in 2013–2022, most recently in 2022.

Q1d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – एकशेषस्य स्वरूपं विवेचनीयम्। (10 marks)

Asked 9 times in 2013–2022, most recently in 2022.

Q1e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – ‘प्रायेणान्यपदार्थप्रधानो बहुव्रीहिः’ इत्यत्र ‘प्रायेण’-पदपाठस्य महत्त्वं प्रतिपाद्यताम्। (10 marks)

Asked 9 times in 2013–2022, most recently in 2022.

Q2a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – वैदिकभाषायां तिङन्तप्रयोगवैशिष्ट्यं वर्णनीयम्। (20 marks)

Asked 9 times in 2013–2022, most recently in 2022.

Q2b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – अर्थविकासस्य दिशः विवृणुत। (15 marks)

Asked 14 times in 2013–2022, most recently in 2022.

Q2c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – भाषाविज्ञानक्षेत्रे कात्यायनस्य योगदानं समीक्ष्यताम्। (15 marks)

Asked 14 times in 2013–2022, most recently in 2022.

Q3a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृतकथासाहित्यमवलम्ब्य एको निबन्धो लेख्यः। (10 marks)

Asked 6 times in 2013–2022, most recently in 2020.

Q3b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “प्रियाङ्कपालीव विमर्दहृद्या न कालिदासादपरस्य वाणी”–उक्तिरियं समीक्षणीया। (15 marks)

Asked 9 times in 2013–2022, most recently in 2021.

Q3c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – रामायणस्योपजीव्यता विवेचनीया। (15 marks)

Asked 6 times in 2013–2022, most recently in 2022.

Q3d. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – संस्कृतमुक्तककाव्यानां समीक्षा विधेया। (10 marks)

Back after a gap: last asked in 2017.

Q4a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – रससूत्रमुद्धृत्य विस्तरेण व्याख्यायताम्। (20 marks)

Asked 21 times in 2013–2022, most recently in 2022.

Q4b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – रामायणस्य आदिकाव्यत्वं साधनीयम्। (15 marks)

Asked 6 times in 2013–2022, most recently in 2022.

Q4c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – “नैषधं विद्वदौषधम्”–सूक्तिरेषा विवेचनीया। (15 marks)

Asked 8 times in 2013–2022, most recently in 2022.

Q5a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – वेदारम्भसंस्कारस्य स्वरूपं महत्त्वं च प्रतिपाद्यताम्। (10 marks)

Asked 8 times in 2013–2022, most recently in 2022.

Q5b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – भारतीयज्ञानपरम्परायामार्यभट्टस्य योगदानं समीक्षणीयम्। (10 marks)

Asked 15 times in 2013–2022, most recently in 2022.

Q5c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – वर्णाश्रमयोः सम्बन्धं विवृणुत। (10 marks)

Asked 7 times in 2013–2022, most recently in 2022.

Q5d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – आश्रमेषु ज्येष्ठस्य आश्रमस्य महत्त्वं प्रतिपादयत। (10 marks)

Asked 7 times in 2013–2022, most recently in 2022.

Q5e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – प्राचीनभारते भित्तिचित्रकलायाः विकासः निरूपणीयः। (10 marks)

Asked 11 times in 2013–2022, most recently in 2022.

Q6a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – श्रीमद्भगवद्गीतासु स्थितप्रज्ञलक्षणानि विवेच्यानि। (20 marks)

Asked 10 times in 2013–2022, most recently in 2022.

Q6b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – सांख्यमाश्रित्य गुणत्रयस्य स्वरूपं कार्यविधिं च प्रतिपादयत। (15 marks)

Asked 9 times in 2013–2022, most recently in 2022.

Q6c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – शाङ्करभाष्यमवलम्ब्य ‘शास्त्रयोनित्वात्’ सूत्रं विवृणुत। (15 marks)

Asked 10 times in 2013–2022, most recently in 2022.

Q7a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – योगशास्त्रोक्तानि चित्तपरिकर्माणि प्रतिपादयत। (20 marks)

Asked 6 times in 2013–2022, most recently in 2022.

Q7b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – बौद्धदर्शने प्रतिपादितानि चत्वारि आर्यसत्यानि निरूपणीयानि। (15 marks)

Asked 8 times in 2013–2022, most recently in 2022.

Q7c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – वैशेषिकशास्त्रस्वीकृतो ‘विशेष’नामकः पदार्थः प्रकाशनीयः। (15 marks)

Asked 3 times in 2013–2022, most recently in 2020.

Q8a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
पृथिव्येषा माताऽस्मदादीनाम्। पृथिवीं विना जीवनस्य कल्पनाऽपि कर्तुं न शक्यते। पृथिव्यां जनसंख्यायाः महाभारः निरन्तरं वर्धत एव। नगरीकरणं तस्याधारभूतसंरचनाविकासार्थं च तरूणां निरन्तरमविचारितकर्त्तनं, प्राकृतिकसंसाधानामसीमितदोहनम्, अनावश्यकतटबन्धनिर्माणं सरित्सु–सर्वाण्येतानि पृथिवीं भृशं प्रदूषयन्ति। महोल्बायाः (ozone) अजस्रं क्षरणेन निखिले जगति प्रखरः असह्यश्च तापः भूयशः वर्धमानस्तिष्ठति। हिमानीगलनेन विश्वं भयाक्रान्तं जातम्। पृथिव्याः पर्यावरणस्य च रक्षणाय वृक्षारोपणमभियानरूपेण संचालयेयुः। जनैः स्वस्वजन्मदिवसेषु एकः फलवान् वृक्षः अवश्यमेव रोपणीयः। निपानेषु, जलाशयेषु, नदीषु, सागरेषु, पर्वतमालासु च अपशिष्टप्रक्षेपणात् आत्मनः निवारयेयुः। उपायैरेतैरस्मदीया पृथिवी आगामिवंशेभ्यः निवासार्हा भविष्यति।
(i) का माताऽस्मदादीनाम्?
(ii) पृथिव्यां कः निरन्तरं वर्धते?
(iii) नगरीकरणस्य विकासार्थं कानि कार्याणि क्रियमाणानि सन्ति?
(iv) महोल्बायाः क्षरणेन पृथिव्यां कः वर्धते?
(v) पृथिव्याः रक्षणाय किमभियानं सञ्चालनीयम्? (25 marks)

Asked 20 times in 2013–2022, most recently in 2022.

Q8b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिर्भवेत्–
श्रीअन्नं स्वास्थ्यस्य पोषणस्य च दृष्ट्या अतिमहत्त्वपूर्णमस्ति। तस्मादेवाद्यत्वे श्रीअन्नं ‘सुपरफूड’ पोषणदायकमन्नमित्युच्यते। वज्रान्नं भविष्यान्नमिति सम्बोध्यते। श्रीअन्नोत्पादकेषु देशेषु भारतं शीर्षस्थं गण्यते। श्रीअन्ननिर्याते च द्वितीयस्थाने वर्तते अस्मद्देशः। श्रीअन्नानि एसिडग्लूटिनसशून्यानि सुपाच्यानि पौष्टिकानि च खाद्यान्नानि इति मन्यन्ते विशेषज्ञैः। वज्रान्नसेवनेन मधुमेहरोगभयं क्षीणतरं कर्तुं शक्यते। वज्रान्नं कैल्शियमायरनजिंकफास्फोरसमैग्नीशियमपोटैशियमप्रभृतीनां खनिजानां समृद्धं स्रोतः अस्ति। अस्य नियमितसेवनेन कुपोषणवारणे महत्साहाय्यं प्राप्यते। यवनालः, वज्रान्नं, प्रियङ्गुः, कङ्गुः, कोद्रवः अणुश्च सकलानीयानि श्रीअन्नानि स्वास्थ्यवर्धकानि पोषणकराणि च सन्ति। सर्वकारैः कृषीवलाः श्रीअन्नोत्पादनसंवर्धनाय नैकविधं प्रेर्यमाणाः सन्ति।
(i) श्रीअन्नं किमर्थं महत्त्वपूर्णमस्ति?
(ii) कानि ‘सुपरफूड’ इत्युच्यन्ते?
(iii) कैः रहितानि श्रीअन्नानि सुपाच्यानि भवन्ति?
(iv) वज्रान्नसेवनेन कस्य रोगस्य भयं क्षीणतरं सञ्जायते?
(v) कस्य नियमितसेवनं कुपोषणं वारयति? (25 marks)

Asked 20 times in 2013–2022, most recently in 2022.
Cover of the UPSC Mains Topic-wise and Year-wise PYQs book (2013–2026)

From the Optional Province team

Strengthen your GS papers

Our UPSC Mains Topic-wise & Year-wise PYQ Book (2013–2026) maps every GS question to the syllabus, so you know what UPSC asks and how often. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Paper II

Q1a. अधोनिर्दिष्टानां विषयाणां विवेचनं सोदाहरणं प्रत्येकं सार्धशतशब्दैः (150) विधीयताम्– “प्रकृतिमधुरा भारविगिरः” इति वचसः आशयः सोदाहरणं विव्रियताम्। (10 marks)

Asked 7 times in 2013–2022, most recently in 2021.

Q1b. अधोनिर्दिष्टानां विषयाणां विवेचनं सोदाहरणं प्रत्येकं सार्धशतशब्दैः (150) विधीयताम्– “मेघे माघे गतं वयः” इति कथनं सप्रमाणं निरूप्यताम्। (10 marks)

Asked 5 times in 2013–2022, most recently in 2022.

Q1c. अधोनिर्दिष्टानां विषयाणां विवेचनं सोदाहरणं प्रत्येकं सार्धशतशब्दैः (150) विधीयताम्– “बाणोच्छिष्टं जगत् सर्वम्” इति वचनं सोदाहरणं समीक्ष्यताम्। (10 marks)

Asked 7 times in 2013–2022, most recently in 2022.

Q1d. अधोनिर्दिष्टानां विषयाणां विवेचनं सोदाहरणं प्रत्येकं सार्धशतशब्दैः (150) विधीयताम्– बृहत्त्रयां नैषधीयचरितस्य स्थानं महत्त्वञ्च प्रतिपाद्यताम्। (10 marks)

Asked 7 times in 2013–2022, most recently in 2022.

Q1e. अधोनिर्दिष्टानां विषयाणां विवेचनं सोदाहरणं प्रत्येकं सार्धशतशब्दैः (150) विधीयताम्– दण्डिनः गद्यसौन्दर्यं सोदाहरणं विशदीक्रियताम्। (10 marks)

Asked 7 times in 2013–2022, most recently in 2022.

Q2a. अधोनिर्दिष्टानां विषयाणां युक्तियुक्ता समीक्षा विधेया– ईशा वास्योपनिषदि ‘संभूति’, ‘असंभूति’ इत्येतयोः कः अभिप्रायः, वैशद्येन समालोच्यताम्। (15 marks)

Asked 10 times in 2013–2022, most recently in 2022.

Q2b. अधोनिर्दिष्टानां विषयाणां युक्तियुक्ता समीक्षा विधेया– गीतायां प्रतिपादितानां ज्ञान-कर्म-भक्तियोगानां सोदाहरणं स्वरूपं समीक्ष्यताम्। (20 marks)

Asked 10 times in 2013–2022, most recently in 2022.

Q2c. अधोनिर्दिष्टानां विषयाणां युक्तियुक्ता समीक्षा विधेया– साम्प्रतिके प्रशासन-परिचालने कौटिलीयार्थशास्त्रस्य उपादेयत्वं सयुक्तिकं सोदाहरणं प्रतिपादयत। (15 marks)

Asked 5 times in 2013–2022, most recently in 2022.

Q3a. अधोनिर्दिष्टानां विषयाणां समीक्षा विधेया– “कालिदासस्य सर्वस्वमभिज्ञानशाकुन्तलम्” इति कथनं सोदाहरणं प्रमाणीक्रियताम्। (15 marks)

Asked 9 times in 2013–2022, most recently in 2022.

Q3b. अधोनिर्दिष्टानां विषयाणां समीक्षा विधेया– मुद्राराक्षसनाटके वर्णितायाः राजनैतिकदशायाः चित्रणं समीक्षणञ्च क्रियताम्। (15 marks)

Asked 2 times in 2013–2022, most recently in 2019.

Q3c. अधोनिर्दिष्टानां विषयाणां समीक्षा विधेया– “उत्तररामचरिते भवभूतिर्विशिष्यते” इति वचनं सप्रमाणं समीक्ष्यताम्। (20 marks)

Asked 5 times in 2013–2022, most recently in 2021.

Q4a. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– पं॰ विष्णुशर्मविरचित-पञ्चतन्त्रस्य वैशिष्ट्यं प्रतिपाद्यताम्। (15 marks)

Asked 3 times in 2013–2022, most recently in 2022.

Q4b. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– संस्कृतमहाकाव्येषु कल्हणविरचित-राजतरंगिण्याः वर्ण्यविषयं वैशद्येन प्रतिपाद्यताम्। (15 marks)

Asked 4 times in 2013–2022, most recently in 2020.

Q4c. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– “महाकवि जयदेवप्रणीतं गीतगोविन्दं पाठं-पाठं, श्रावं-श्रावं च कोऽपि अनिर्वचनीयः आनन्दः समुदेति” इति भावं सोदाहरणं प्रमाणीक्रियताम्। (20 marks)

Asked 4 times in 2013–2022, most recently in 2022.

Q5a. देवनागरीलिप्यां संस्कृतभाषायां सार्धशतशब्देषु (150) व्याख्यायताम्– त्यागाय संभृतार्थानां सत्याय मितभाषिणाम्।
यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्॥ (10 marks)

Asked before: a similar question came in 2011.

Q5b. देवनागरीलिप्यां संस्कृतभाषायां सार्धशतशब्देषु (150) व्याख्यायताम्– रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्।
तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः॥ (10 marks)

Asked before: a similar question came in 2014.

Q5c. देवनागरीलिप्यां संस्कृतभाषायां सार्धशतशब्देषु (150) व्याख्यायताम्– अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम्।
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः॥ (10 marks)

Asked before: a similar question came in 2019.

Q5d. देवनागरीलिप्यां संस्कृतभाषायां सार्धशतशब्देषु (150) व्याख्यायताम्– क्रियासु युक्तैर्नृप! चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः।
अतोऽर्हसि क्षन्तुमसाधु साधु वा हितं मनोहारि च दुर्लभं वचः॥ (10 marks)

Asked before: a similar question came in 2019.

Q5e. देवनागरीलिप्यां संस्कृतभाषायां सार्धशतशब्देषु (150) व्याख्यायताम्– कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः।
न विव्यथे तस्य मनो न हि प्रियं प्रवक्तुमिच्छन्ति मृषा हितैषिणः॥ (10 marks)

Asked before: a similar question came in 2013.

Q6a. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत्।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥ (15 marks)

Asked before: a similar question came in 2010.

Q6b. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ।
समदुःखसुखं धीरं सोऽमृतत्त्वाय कल्पते॥ (15 marks)

Asked before: a similar question came in 2015.

Q6c. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– अश्रुपूर्णमुखीं दीनां कृशामनशनेन च।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥ (20 marks)

Asked 10 times in 2013–2022, most recently in 2022.

Q7a. अधोलिखितानां भावार्थः सन्दर्भपुरस्सरं प्रतिपादनीयः – सन्तप्तानां त्वमसि शरणं तत्पयोद! प्रियायाः,
सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य।
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां,
बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या॥ (15 marks)

Asked before: a similar question came in 2018.

Q7b. अधोलिखितानां भावार्थः सन्दर्भपुरस्सरं प्रतिपादनीयः – यदाऽकिञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं,
तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।
यदा किञ्चित्किञ्चिद् बुधजनसकाशादवगतं,
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥ (15 marks)

Asked before: a similar question came in 2011.

Q7c. अधोलिखितानां भावार्थः सन्दर्भपुरस्सरं प्रतिपादनीयः – तात! चन्द्रापीड! विदितवेदितव्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति। केवलञ्च निसर्गत एवाऽभानुभेद्यमरत्नालोकच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम्। (20 marks)

Asked 11 times in 2013–2022, most recently in 2022.

Q8a. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः,
स्मृत्वा पुनर्नृपसुतानिधनं विषादः।
किं नाम दैव! भवता न कृतं यदि स्याद्,
राज्यं परैरपहृतं कुशलं च देव्याः॥ (15 marks)

Asked 8 times in 2013–2022, most recently in 2022.

Q8b. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– यस्य त्वया व्रणविरोपणमिङ्गुदीनां,
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे।
श्यामाकमुष्टिपरिवर्द्धितको जहाति,
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥ (15 marks)

Asked 10 times in 2013–2022, most recently in 2022.

Q8c. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो-
रसावस्याः स्पर्शो वपुषि बहुलश्चन्दनरसः।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः,
किमस्या न प्रेयो? यदि परमसह्यस्तु विरहः॥ (20 marks)

Asked before: a similar question came in 2016.

Spotted an error? Tell us.

We classify every PYQ with care, but mistakes can slip in. If a question is in the wrong topic, has a typo, the wrong year, or is missing, let us know. We review every report and update the page.

Report an Error

Spotted something wrong?

If a question is in the wrong unit or a match looks wrong, please report an error.

Related: Overall Sanskrit Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

Subscribe
Notify of
guest

0 Comments
Oldest
Newest Most Voted