Every question from the Sanskrit Literature Optional papers of UPSC Mains 2024, placed in its syllabus unit and checked against all questions asked from 2013 to 2023. See what was familiar, what came back and what was new.
Other years:
What stood out in 2024
- More marks than usual: खण्डः क, वर्गः 2: उपनिषद्, गीता, रामायणम्, अर्थशास्त्रम् (65 marks, against an average of 49); भारतीयदर्शनस्य प्रवृत्तयः (100 marks, against an average of 86).
- Fewer marks than usual: खण्डः ख, वर्गः 2: उपनिषद्, गीता, रामायणम् (35 marks, against an average of 50); भारतीयसंस्कृतेः मूलतत्त्वानि (50 marks, against an average of 62).
- 16 questions were close repeats of an earlier paper: Q1b (Paper II), first seen in 2020; Q1c (Paper II), first seen in 2020; Q1d (Paper II), first seen in 2021; Q1e (Paper II), first seen in 2020; Q2a (Paper I), first seen in 2019; Q5a (Paper II), first seen in 2013; Q5b (Paper I), first seen in 2020; Q5b (Paper II), first seen in 2016; Q5c (Paper II), first seen in 2015; Q5d (Paper II), first seen in 2020; Q5e (Paper II), first seen in 2016; Q6c (Paper II), first seen in 2021; Q7b (Paper II), first seen in 2009; Q8a (Paper II), first seen in 2013; Q8b (Paper II), first seen in 2011; Q8c (Paper II), first seen in 2012.
- 2 questions came from topics that were new or had not been asked for six years or more.
Which units got the marks in 2024
Marks asked from each unit in 2024 (dark bar) against its average for 2013–2023 (grey bar).
Paper I
| Unit | 2024 | Average 2013–23 |
|---|---|---|
| व्याकरणम् | 50 | 41 |
| भाषा | 35 | 43 |
| साहित्येतिहासः काव्यशास्त्रं साहित्यविधाश्च | 115 | 115 |
| भारतीयसंस्कृतेः मूलतत्त्वानि | 50 | 62 |
| भारतीयदर्शनस्य प्रवृत्तयः | 100 | 86 |
| लघुनिबन्धः | 0 | 2 |
| अपठितगद्यांशः | 50 | 50 |
Paper II
| Unit | 2024 | Average 2013–23 |
|---|---|---|
| खण्डः क, वर्गः 1: काव्यम् | 50 | 50 |
| खण्डः क, वर्गः 2: उपनिषद्, गीता, रामायणम्, अर्थशास्त्रम् | 65 | 49 |
| खण्डः क, वर्गः 3: रूपकाणि | 50 | 49 |
| खण्डः क, वर्गः 4: संस्कृतेन लघुटिप्पण्यः | 50 | 52 |
| खण्डः ख, वर्गः 1: महाकाव्यपद्यानि | 50 | 52 |
| खण्डः ख, वर्गः 2: उपनिषद्, गीता, रामायणम् | 35 | 50 |
| खण्डः ख, वर्गः 3: मेघदूतम्, नीतिशतकम्, कादम्बरी | 50 | 51 |
| खण्डः ख, वर्गः 4: रूपकांशाः | 50 | 47 |
A question that fits two units is split equally between them.
Paper I
Q1a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः:
(i) ‘झष्’-प्रत्याहारान्तर्गताः वर्णाः लेखनीयाः ।
(ii) ‘सः वदति’- वाच्यपरिवर्तनं क्रियताम् ।
(iii) बाह्यप्रयत्नस्य कति भेदाः भवन्ति? तेषां नामानि लिख्यन्ताम् ।
(iv) के उदितः कथ्यन्ते?
(v) ‘धान्यार्थः’ इत्यत्र विग्रहपूर्वकं समासनाम लिखत ।
(vi) ‘पूर्वस्यां शालायां भवः’ इत्यत्र समासं समासनाम च दर्शयत ।
(vii) संयोगसंज्ञाविधायकं सूत्रं किम्?
(viii) ‘उपोषति’ इत्यत्र सूत्रोल्लेखपूर्वकं सन्धिविच्छेदः करणीयः ।
(ix) ‘गङ्गोदकम्’ इत्यत्र सूत्रोल्लेखपूर्वकं सन्धिस्थितिः विवेचनीया ।
(x) ‘त्वं पुस्तकं पठसि’ – वाच्यपरिवर्तनं क्रियताम् । (10 marks)
Q1b. अधोलिखितेषु वाक्येषु रेखाङ्कितपदेषु सूत्रोल्लेखपूर्वकं विभक्तिप्रयोगः संस्कृतभाषया निर्णेयः:
(i) दैत्येभ्यो हरिरलम् ।
(ii) वृक्षम् अवचिनोति फलानि ।
(iii) सतां गतम् ।
(iv) माणवकं धर्मं भाषते ।
(v) सर्वस्मिन्नात्मास्ति । (10 marks)
Q1c. अधोलिखितानां सूत्राणामर्थोदाहरणानि संस्कृतेन 3-4 पंक्तिभिर्लेख्यानि:
(i) तोर्लि ।
(ii) अतो रो रप्लुतादप्लुते ।
(iii) झलां जश् झशि ।
(iv) उरण् रपरः ।
(v) यथासंख्यमनुदेशः समानाम् । (10 marks)
Q1d. उपपदविभक्तेः कारकविभक्तेश्च भिन्नत्वं प्रदर्शयत । (10 marks)
Q1e. ‘द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्’ इत्यस्य सोदाहरणं व्याख्यानं कुरुत । (10 marks)
Q2a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: वैदिकसंस्कृतलौकिकसंस्कृतयोः साम्यं वैषम्यञ्च विविच्यताम् । (20 marks)
Q2b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: संस्कृतकाव्यशास्त्रे ध्वनिसिद्धान्तस्य वैशिष्ट्यं प्रकाश्यताम् । (15 marks)
Q2c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: भाषाविज्ञानक्षेत्रे आचार्यभर्तृहरेः योगदानं निरूप्यताम् । (15 marks)
Q3a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: महाभारतस्य महत्स्वरूपं प्रकाशयत । (15 marks)
Q3b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: महाकविकालिदासस्य सूक्तिसौन्दर्यं विशदयत । (10 marks)
Q3c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: व्यञ्जनायाः स्वरूपं सनिदर्शनं प्रतिपाद्यताम् । (15 marks)
Q3d. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: संस्कृतगद्यकाव्यस्य उत्पत्तिविकासयोः समीक्षा कार्या । (10 marks)
Q4a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: रूपकशब्दस्य व्युत्पत्तिलक्षणनिर्देशपूर्वकं तस्य प्रभेदान् वर्णयत । (20 marks)
Q4b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: रामायणस्य सांस्कृतिकं पक्षं प्रसाधयत । (15 marks)
Q4c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: संस्कृतकाव्यशास्त्रे प्रतिपादितानि काव्यप्रयोजनानि विशदयत । (15 marks)
Q5a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: प्राचीनभारते कलानां वैविध्यमधिकृत्य निबन्धो लेख्यः । (10 marks)
Q5b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: उपनयनसंस्कारस्य स्वरूपं महत्त्वं च प्रतिपाद्यताम् । (10 marks)
Q5c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: संन्यासाश्रमस्य स्वरूपं महत्त्वं च वर्णयत । (10 marks)
Q5d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: प्राचीनभारतीयचिकित्साधारायाम् आचार्यसुश्रुतस्य योगदानं विवृणुत । (10 marks)
Q5e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: प्राचीनभारतीयज्ञानधारामनुसृत्य चतुर्णां वर्णानां कर्तव्यानि विवेचनीयानि । (10 marks)
Q6a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: वेदान्तदर्शनानुसारं पञ्चकोशानां स्वरूपं वर्णयत । (20 marks)
Q6b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: सांख्यदर्शनानुसारं ‘पुरुषबहुत्वं’ प्रतिपादयत । (15 marks)
Q6c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: श्रीमद्भगवद्गीतानुसारं निष्कामकर्मयोगस्य स्वरूपं निरूपयत । (15 marks)
Q7a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: न्यायदर्शनानुसारम् अनुमानप्रमाणं प्रसाधयत । (20 marks)
Q7b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: वैशेषिकदर्शने कति द्रव्याणि सन्ति? तेषां नामानि विलिख्य पृथिवीतेजसोः द्रव्ययोः स्वरूपं वर्णयत । (15 marks)
Q7c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: बौद्धदर्शने प्रतिपादितं प्रतीत्यसमुत्पादं वर्णयत । (15 marks)
Q8a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्:
समग्रमपि जगत् अस्मदीयं कुटुम्बम् इत्येतां भावनां लोके या संस्कृतिः सभ्यता वा प्रासारयत् सा वैदिकी संस्कृतिरेव वर्तते । अस्याः संस्कृतेः प्रतिपादकानि सन्ति श्रुतयः स्मृतयः दर्शनानि, पुराणानि, गद्यपद्यनाटकादीनि सर्वाणि पुस्तकानि । एतेषां सर्वेषाम् एक एव स्वरो वर्तते यन् निखिलं विश्वं नीडवद् वर्तते । भारतीया महर्षयः एतस्मादेव कारणात् तादृशानाम् आदर्शानां, मूल्यानां, संस्काराणां प्रसारणमुचितं मेनिरे यादृशैः संस्कारैर्मानवस्य संकीर्णतानुदारतास्वार्थपरायणतादिदोषाः मलिना भवन्ति । मानवानां निर्माणकारि-उपादानं नानेकविद्या, न कलापारङ्गता, न ऐश्वर्यशालिता, न सुरूपता, नोच्चकुलतास्ति । मानवनिर्माणस्योपादानानि तु अन्यानि एव सन्ति । ईशावास्योपनिषद् एतादृशमेकमुपादानं मानवनिर्माणकरं ज्ञापयति यस्मिन् सत्यन्यस्यापेक्षैव न स्यात् –
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥
मानवो येन निर्मीयते तदुपादानमुद्दिश्य पुनः ईशावास्योपनिषदाह –
‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’
‘तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद् धनम्’ इति ।
(i) का नाम संस्कृतिः विश्वं नीडवद् मन्यते?
(ii) अस्याः संस्कृतेः प्रतिपादकाः ग्रन्थाः के?
(iii) महर्षिभिः कीदृशाः संस्काराः प्रतिपादिताः?
(iv) मानवानां निर्माणकारीणि उपादानानि कानि न सन्ति?
(v) मानवनिर्माणकारि-उपादानेषु ईशावास्योपनिषदः कः सन्देशः? (25 marks)
Q8b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिर्भवेत्:
अस्ति वेदान्तदर्शनं सर्वदर्शनमूर्धन्यम् । शारीरकमीमांसेत्येतयापि समाख्ययेदं शास्त्रं सर्वविदितम् । सन्त्यस्योपजीव्या उपनिषद् एव । वेदस्यान्तिमसिद्धान्तस्य निरूपकत्वादुपनिषदामिवास्यापि ‘वेदान्त’ इत्येषा संज्ञा अन्वर्था । औपनिषदानां वचनानां मिथो विरोधेनावभासमानानां सिद्धान्तानां विरोधपरिहाराय भगवान् बादरायणो व्यासो ब्रह्मसूत्रमित्यपरसंज्ञकं दर्शनमिदं प्राणैषीत् । एतत् ब्रह्मसूत्रनामकं दर्शनमखिलवेदान्तसिद्धान्तानामाकरग्रन्थः । भिक्षूणामादरणीयत्वाद् उपादेयत्वाच्च दर्शनमिदं भिक्षुसूत्रम् इत्येतामपि संज्ञां भजते ।
ब्रह्मसूत्रस्य बहवः भाष्यकाराः सन्ति । शङ्करभास्कररामानुजमध्वनिम्बार्कश्रीकण्ठश्रीपतिवल्लभविज्ञानभिक्षुबलदेवाः सन्ति प्रमुखाः अस्मिन् क्रमे । वेदान्तसाहित्यं विपुलतममस्ति । रामानुजमध्वनिम्बार्कवल्लभप्रभृत्याचार्याणां तेषामनुयायिनाञ्च साहित्यं वेदान्तदर्शनस्य भाण्डागारं सुतरां वर्धयति । दर्शनान्तरस्य किञ्च अन्येषामपि विषयाणां भाण्डागारमनायासेनैव अधरीकरोति ।
(i) वेदान्तदर्शनं कीदृशं दर्शनमस्ति? किमर्थं चास्य ‘वेदान्तसंज्ञा’ भवति?
(ii) वेदान्तदर्शनस्य उपजीव्याः काः?
(iii) दर्शनस्यास्य कानि अपराणि नामानि?
(iv) को ब्रह्मसूत्रं प्राणैषीत् किमर्थं च?
(v) ब्रह्मसूत्रस्य के प्रमुखा भाष्यकाराः सन्ति? (25 marks)
Paper II
Q1a. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– कालिदासरचितरघुवंशमहाकाव्ये प्रतिबिम्बितं काव्यसौष्ठवं विशदयत। (10 marks)
Q1b. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “भारवेरर्थगौरवम्” इत्येतन्मतं युक्तिपुरस्सरं विशदयत। (10 marks)
Q1c. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “कादम्बरीरसज्ञानामाहारोऽपि न रोचते” इत्येषा भणितिः सयुक्तिकं सोदाहरणं च विव्रियताम्। (10 marks)
Q1d. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “उदिते नैषधे काव्ये क्व माघः क्व च भारविः” इतीयम् उक्तिः सयुक्तिकं सोदाहरणं च समीक्ष्यताम्। (10 marks)
Q1e. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– श्रीधरभास्करवर्णेकरविरचितस्य शिवराज्योदयमहाकाव्यस्य काव्यगतं वैशिष्ट्यं प्रतिपादयत। (10 marks)
Q2a. अधोनिर्दिष्टानां विषयाणां सारगर्भिता समीक्षणीया– ईशावास्योपनिषदमनुसृत्य विद्याविद्ययोः स्वरूपं निरूप्यताम्। (15 marks)
Q2b. अधोनिर्दिष्टानां विषयाणां सारगर्भिता समीक्षणीया– भगवद्गीतायां प्रतिपादितं ‘कर्मयोगं’ विशदयत। (20 marks)
Q2c. अधोनिर्दिष्टानां विषयाणां सारगर्भिता समीक्षणीया– कौटिलीयायाः अर्थव्यवस्थायाः वर्त्तमानप्रसङ्गे उपयोगित्वं प्रतिपाद्यताम्। (15 marks)
Q3a. अधोनिर्दिष्टानां विषयाणां समीक्षा विधेया– भाषादृष्ट्या मृच्छकटिकस्य वैशिष्ट्यं विशद्यताम्। (15 marks)
Q3b. अधोनिर्दिष्टानां विषयाणां समीक्षा विधेया– रत्नावलीमनुसृत्य हर्षवर्धनस्य नाट्यशैली समीक्ष्यताम्। (15 marks)
Q3c. अधोनिर्दिष्टानां विषयाणां समीक्षा विधेया– वेणीसंहारमवलम्ब्य कर्णस्य चरित्रमनुशीलयत। (20 marks)
Q4a. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– मेघदूते समुपलब्धं प्रकृतिचित्रणं वैशद्येन निरूप्यताम्। (15 marks)
Q4b. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– संस्कृतसाहित्येतिहासे पञ्चतन्त्रस्य स्थानं विवेचयत। (15 marks)
Q4c. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– बाणभट्टरचितस्य हर्षचरितस्य ऐतिहासिकं महत्त्वं प्रतिपादयत। (20 marks)
Q5a. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– अथवा कृतवाग्द्वारे वंशेऽस्मिन्पूर्वसूरिभिः।
मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः॥ (10 marks)
Q5b. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– यः पूरयन् कीचकरन्ध्रभागान् दरीमुखोत्थेन समीरणेन।
उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम्॥ (10 marks)
Q5c. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– आमेखलं सञ्चरतां घनानां छायामधःसानुगतां निषेव्य।
उद्वेजिता वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः॥ (10 marks)
Q5d. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः।
स सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिति वाचमाददे॥ (10 marks)
Q5e. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना।
विभज्य नक्तंदिवमस्ततन्द्रिणा वितन्यते तेन नयेन पौरुषम्॥ (10 marks)
Q6a. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– तदेजति तन्नैजति तद् दूरे तद्वन्तिके।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः॥ (15 marks)
Q6b. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– वेदाविनाशिनं नित्यं य एनमजमव्ययम्।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम्॥ (20 marks)
Q6c. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्।
पिनद्धां धूमजालेन शिखामिव विभावसोः॥ (15 marks)
Q7a. अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः,
प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः।
कः संनद्धे विरहविधुरां त्वय्युपेक्षेत जायाम्,
न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः॥ (15 marks)
Q7b. अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः।
ज्ञानलवदुर्विदग्धं ब्रह्मापि तं नरं न रञ्जयति॥ (15 marks)
Q7c. अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – तथा हि, अभिषेकसमय एव चैषां मङ्गलकलसजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव मलिनीक्रियते हृदयम्, पुरोहितकुशाग्रसम्मार्जनीभिरिवापनीयते क्षान्तिः, उष्णीषपट्टबन्धेनेवाच्छाद्यते जरागमनस्मरणम्, आतपत्रमण्डलेनेवापवार्यते परलोकदर्शनम्, चामरपवनैरिवापह्रियते सत्यवादिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्दकलकलैरिव तिरस्क्रियन्ते साधुवादाः, ध्वजपटपल्लवैरिव मरामृश्यते यशः। (20 marks)
Q8a. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते।
प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते॥ (15 marks)
Q8b. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– शुश्रूषस्व गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः।
भूयिष्ठं भव दक्षिणा परिजने भोगेष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥ (15 marks)
Q8c. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– विनिश्चेतुं शक्यो न सुखमिति वा दुःखमिति वा,
प्रमोहो निद्रा वा किमु विषविसर्पः किमु मदः।
तव स्पर्शे स्पर्शे मम हि परिमूढेन्द्रियगणो,
विकारश्चैतन्यं भ्रमयति च संमीलयति च॥ (20 marks)
Spotted something wrong?
If a question is in the wrong unit or a match looks wrong, please report an error.
Related: Overall Sanskrit Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

