Every question from the Sanskrit Literature Optional papers of UPSC Mains 2026, placed in its syllabus unit and checked against all questions asked from 2013 to 2025. See what was familiar, what came back and what was new.
Other years:
What stood out in 2026
- More marks than usual: भारतीयदर्शनस्य प्रवृत्तयः (100 marks, against an average of 89).
- Fewer marks than usual: साहित्येतिहासः काव्यशास्त्रं साहित्यविधाश्च (100 marks, against an average of 115); भारतीयसंस्कृतेः मूलतत्त्वानि (50 marks, against an average of 60).
- 12 questions were close repeats of an earlier paper: Q5a (Paper II), first seen in 2021; Q5b (Paper II), first seen in 2020; Q5c (Paper II), first seen in 2020; Q5e (Paper II), first seen in 2020; Q6a (Paper II), first seen in 2021; Q6c (Paper II), first seen in 2023; Q7a (Paper II), first seen in 2014; Q7b (Paper II), first seen in 2019; Q7c (Paper II), first seen in 2009; Q8a (Paper II), first seen in 2024; Q8b (Paper II), first seen in 2013; Q8c (Paper II), first seen in 2013.
- 2 questions came from topics that were new or had not been asked for six years or more.
Which units got the marks in 2026
Marks asked from each unit in 2026 (dark bar) against its average for 2013–2025 (grey bar).
Paper I
| Unit | 2026 | Average 2013–25 |
|---|---|---|
| व्याकरणम् | 50 | 42 |
| भाषा | 50 | 42 |
| साहित्येतिहासः काव्यशास्त्रं साहित्यविधाश्च | 100 | 115 |
| भारतीयसंस्कृतेः मूलतत्त्वानि | 50 | 60 |
| भारतीयदर्शनस्य प्रवृत्तयः | 100 | 89 |
| लघुनिबन्धः | 0 | 2 |
| अपठितगद्यांशः | 50 | 50 |
Paper II
| Unit | 2026 | Average 2013–25 |
|---|---|---|
| खण्डः क, वर्गः 1: काव्यम् | 45 | 50 |
| खण्डः क, वर्गः 2: उपनिषद्, गीता, रामायणम्, अर्थशास्त्रम् | 50 | 49 |
| खण्डः क, वर्गः 3: रूपकाणि | 50 | 49 |
| खण्डः क, वर्गः 4: संस्कृतेन लघुटिप्पण्यः | 55 | 52 |
| खण्डः ख, वर्गः 1: महाकाव्यपद्यानि | 50 | 51 |
| खण्डः ख, वर्गः 2: उपनिषद्, गीता, रामायणम् | 50 | 50 |
| खण्डः ख, वर्गः 3: मेघदूतम्, नीतिशतकम्, कादम्बरी | 50 | 51 |
| खण्डः ख, वर्गः 4: रूपकांशाः | 50 | 47 |
A question that fits two units is split equally between them.
Paper I
Q1a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः:
(i) ‘यय्’-प्रत्याहारस्य वर्णाः लेख्याः ।
(ii) आभ्यन्तरप्रयत्नाः कति सन्ति? तेषां नामानि लेखनीयानि ।
(iii) क्, झ्, ड्, थ्, व् – इत्येतेषां वर्णानाम् उच्चारणस्थानानि विलेख्यानि ।
(iv) ‘संहिता’-सञ्ज्ञाविधायकं सूत्रं किमस्ति?
(v) बालकैः अपूपाः भुज्यन्ते – इत्यत्र वाच्यपरिवर्तनं क्रियताम् ।
(vi) ‘शिवेहि’ इत्यत्र सूत्रोल्लेखपूर्वकं सन्धिविच्छेदः कार्यः ।
(vii) ‘वाग्घरिः’ इत्यत्र सूत्रोल्लेखपूर्वकं सन्धिविच्छेदः करणीयः ।
(viii) ‘अनुरूपम्’ इत्यत्र विग्रहपूर्वकं समासनाम लेख्यम् ।
(ix) ‘प्राप्ता विद्या यया’ इत्यत्र समासनामोल्लेखपूर्वकं समासो विधेयः ।
(x) ‘गुरुः शिष्यान् पाठयति’ इत्यत्र वाच्यपरिवर्तनं विधीयताम् । (10 marks)
Q1b. अधोनिर्दिष्टानां रेखाङ्कितपदानां सूत्रोल्लेखपूर्वकं विभक्तेरुपपत्तिः संस्कृतेन निरूपणीया:
(i) द्रोणो व्रीहिः ।
(ii) क्रोशं कुटिला नदी ।
(iii) बालकेभ्यः क्रीडा रोचते ।
(iv) आचार्यात् छात्रः शास्त्रम् अधीते ।
(v) कवीनां श्रेष्ठः कालिदासः । (10 marks)
Q1c. अधोलिखितसूत्राणाम् अर्थः सोदाहरणं 3-4 पंक्तिभिः लेख्यः –
(i) आदिरन्त्येन सहेता ।
(ii) वृद्धिरेचि ।
(iii) अधिशीङ्स्थासां कर्म ।
(iv) तृतीया तत्कृतार्थेन गुणवचनेन ।
(v) अजाद्यदन्तम् । (10 marks)
Q1d. गौणकर्मणः मुख्यकर्मणश्च भिन्नता सोदाहरणं प्रदर्शनीया । (10 marks)
Q1e. ‘संख्या वंश्येन’ इति सूत्रं सोदाहरणं व्याख्येयम् । (10 marks)
Q2a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: वैदिकसंस्कृतभाषायां सुबन्तपदप्रयोगवैविध्यं प्रतिपाद्यम् । (20 marks)
Q2b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: लौकिकसंस्कृतभाषायाः स्वरूपवैशिष्ट्यं निरूपणीयम् । (15 marks)
Q2c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: लौकिकसंस्कृतभाषायां ध्वनिविज्ञानस्य महिमा वर्णनीयः । (15 marks)
Q3a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: ‘रम्या रामायणी कथा’ इत्युक्तिः समीक्षणीया । (15 marks)
Q3b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: ‘काव्यस्यात्मा ध्वनि’रिति वचः सोदाहरणं विवेचनीयम् । (10 marks)
Q3c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: ‘कारुण्यं भवभूतिरेव तनुते’ इति सूक्तिः सन्निदर्शनेन विमर्शनीया । (15 marks)
Q3d. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: चम्पूकाव्यस्य विकासक्रमः निरूपणीयः । (10 marks)
Q4a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: संस्कृतमहाकाव्यानाम् उद्भवः विकासश्च समुपवर्ण्यताम् । (20 marks)
Q4b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: ‘यन्न भारते तन्न भारते’ इत्युक्तिः साधु विविच्यताम् । (15 marks)
Q4c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: संस्कृतकाव्यशास्त्रे प्रतिपादितं काव्यलक्षणं समीक्ष्यताम् । (15 marks)
Q5a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: संगीतकलायां प्राच्यभारतस्य अवदानं परिशील्यताम् । (10 marks)
Q5b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: संस्कारेषु विवाहोत्सवस्य महत्त्वम् उपवर्ण्यताम् । (10 marks)
Q5c. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: पुरुषार्थचतुष्टयस्य विवेचना क्रियताम् । (10 marks)
Q5d. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: चिकित्साशास्त्रे आचार्यचरकस्य समवदानं समुपवर्ण्यताम् । (10 marks)
Q5e. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: ‘धन्यो गृहस्थाश्रमः’ इत्युक्तिमाश्रित्य गृहस्थाश्रमस्य महत्ता समुपपादनीया । (10 marks)
Q6a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: सांख्यदर्शनानुसारं मूलप्रकृतेः स्वरूपं वैशिष्ट्यञ्च प्रतिपादनीयम् । (20 marks)
Q6b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: न्यायदर्शनानुसारं प्रमाणवैविध्यं सोदाहरणं विवेचनीयम् । (15 marks)
Q6c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: मीमांसादर्शनानुसारं गृहस्थेभ्यः पञ्चयज्ञानाम् उपयोगित्वं साधनीयम् । (15 marks)
Q7a. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: बौद्धदर्शनानुरूपं शिष्यचतुष्टयमतम् उद्धृत्य ‘सर्वं शून्यं सर्वं शून्यम्’ इत्युक्तिः व्याख्यायताम् । (20 marks)
Q7b. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: योगदर्शनानुसारं क्रियायोगः समुपवर्ण्यताम् । (15 marks)
Q7c. अधोलिखिताः सर्वे प्रश्नाः समाधेयाः: श्रीमद्भगवद्गीतानुसारं भक्तियोगस्य स्वरूपं सलक्षणं प्रतिपाद्यताम् । (15 marks)
Q8a. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यग् अवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्:
मानवानां जीवनंसाफल्यसिद्धये सकलश्रुतिस्मृतिप्रसिद्धाः धर्मार्थकाममोक्षाख्याः चत्वारः परमपुरुषार्थाः अनुष्ठेयत्वेन प्रतिपादिताः । तेषाम् अनुष्ठानम् आरोग्यं विना कदापि सुकरं न भवति । तत् आरोग्यं च युक्ताहारविहारं विना, कर्मसु युक्तचेष्टाम् अन्तरा, युक्तस्वप्नावबोधं चान्तरेण नावाप्तुं शक्यते । अतः आरोग्यसंरक्षणार्थं व्यायामः, प्राणायामः, यमनियमासनादयः योगांङ्गक्रियाकलापाश्च सर्वैरेव जनैः सदा अनुष्ठेयाः । यतः प्रोक्तं वर्तते –
व्यायामपुष्टगात्रस्य बुद्धिस्तेजो यशो बलम् ।
प्रवर्धन्ते मनुष्यस्य तस्माद् व्यायाममाचरेत् ॥
आरोग्यं विना धर्मः सम्यक्तया न परिपाल्यते । अर्थमपि सम्यग् उपार्जयितुं मनः न उत्सहते । दुर्बलाङ्गत्वात् अभिलाषा अपि न प्रपूर्यते । पुण्यैः प्राप्तस्य मानवजन्मनः वैफल्यं नाम दौर्भाग्यमयं कियत् कष्टं भविष्यति । तस्मात् आरोग्यरत्नमिदं सर्वैः बुद्धिमद्भिः सर्वतोभावेन रक्षणीयमेव । समे चत्वारः पुरुषार्थाः अपि एकेन आरोग्येन सर्वासु अवस्थासु संसाध्याः सन्ति । अतः तत्तत्साफल्यावाप्तये आरोग्यमेव एकमावश्यकं साधनं विद्यते विश्वजनानां कृते । स्वस्थे शरीरे एव विद्या अपि समुज्ज्वला तेजस्विनी च भवति । अस्वस्थे दुर्बले वपुषि च सा तेजोविहीना दीनहीनेव च प्रतिभाति । एवमेव गृहस्थसुखमपि पूर्णारोग्ययुक्तानां बलिष्ठानामेव यूनां युवतीनां च कृते सुकरं भवति, न तु रुग्णजीर्णशीर्णवपुष्मताम् ।
प्रश्नाः –
(i) धर्मस्य आद्यं साधनं शरीरमेव कथम्?
(ii) व्यायामस्य साफल्यार्थं यमनियमाचरणं कथमावश्यकम्?
(iii) दुर्बलत्वात् मनोरथपूर्तिः कथं न भवति?
(iv) स्वस्थं मनः कथं स्वस्थं वपुः पोषयति?
(v) गृहस्थसुखार्थम् आरोग्यं कथमपेक्ष्यते? (25 marks)
Q8b. अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यग् अवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्:
स्त्रीशिक्षायाः साम्प्रतं महती आवश्यकता अनुभूयते, यतो हि मातृशक्तेः प्रतीकभूताः स्त्रियः एव एताः सन्ति । शिक्षा पुण्यापुण्यविवेचनी शुभाशुभावबोधनी हिताहितनिदर्शनी कृत्याकृत्यनिर्देशनी, मनसः प्रसादयित्री च वर्तते । यथेयं शिक्षा नराणां हितसाधयित्री सुखसाधनभूता च विद्यते, तथैव स्त्रीणाम् कृतेऽपि अनिवार्या सुखशान्तिसाधिका समुन्नतिमूलिका च । यथा शिक्षामन्तरेण न पुरुषैः अभ्युदयावाप्तिः सुलभा सुकरा च भवति, तथैव स्त्रीणामपि कृते ज्ञेयम् । सद्गृहस्थ-सुरथस्य नरः नारी चेति द्वौ एतौ चक्रद्वयमस्ति । यथा एकेन चक्रेण रथस्य गतिः न सम्भवति, एवं सर्वार्थसाधिकां स्त्रियं विना गृहस्थरथस्य प्रगतिः सुकरा न । नरे विदुषि सत्यपि, यदि सहधर्मचारिणी सुशिक्षाभिः विहीना भवति, तर्हि सुखावहं दाम्पत्यं न । यतो हि द्वयोः एव गुणैः धर्मेण ज्ञानेन शीलेन सौजन्येन च गार्हस्थ्यं सुखम् अनुभूयते इत्यवगन्तव्यम् । यथा ज्ञानमन्तरा नरस्य समुन्नतिः दुर्लभा, तथैव स्त्रियोऽपि । निसर्गादिव एतासु शिशोः भरण-पोषणस्य, गृहसञ्चालनस्य गृहस्थजीवनाय सुखशान्तेश्च उत्तरदायित्वं भवति । शिक्षाम् अनासाद्य स्त्रीभिः स्वीयोत्तरदायित्वस्य परिपालनं कथमपि न सम्भाव्यते । शिक्षालाभाय च न केवलं विविधविषयग्रन्थानां परिशीलनम् एव पर्याप्तमस्ति, अपि तु व्यावहारिक-सामाजिकयोः विविधानां विद्यानां विज्ञानानां च परिज्ञानम् अपि तासां कृतेऽनिवार्यम् । अतोऽनुभूयते सर्वत्र यत्, सुशिक्षितैव स्त्री सद्गृहिणी सती साध्वी सत्कर्मपरायणा वंशप्रतिष्ठास्वरूपा च भवितुमर्हति । उच्यते च –
‘न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।’
प्रश्नाः –
(i) शिक्षया के सुपरिणामाः समुपलभ्यन्ते?
(ii) समाजे गृहस्थरथः कथं प्रवर्तते?
(iii) नारीशिक्षां संवर्धयितुं किमनुष्ठेयम्?
(iv) सुशिक्षितैव स्त्री कथं सद्गृहिणीपदम् अवाप्तुमर्हति?
(v) गृहसञ्चालने स्त्री कथं निसर्गपटुः भवति? (25 marks)
Paper II
Q1a. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “प्रियाङ्कपालीव विमर्दहृद्या न कालिदासादपरस्य वाणी” सूक्तिरेषा युक्तैः उदाहरणैः साध्या। (10 marks)
Q1b. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “नैषधं विद्वदौषधम्” कथनमेतत् विवरणीयम्। (10 marks)
Q1c. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “दण्डिनः पदलालित्यम्” सुवचनमिदं विशदयत। (10 marks)
Q1d. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “मेघे माघे गतं वयः” भणितिमेतां समीक्ष्यताम्। (10 marks)
Q1e. अधोनिर्दिष्टानां विषयाणां पर्यालोचनं सोदाहरणं प्रत्येकं सार्धशतेन (150) शब्दैः विधीयताम्– “वाणी बाणो बभूवेति” कादम्बरीगतैः युक्तैः उदाहरणैः साधयत सुभाषितमेतत्। (10 marks)
Q2a. अधोनिर्दिष्टानां विषयाणां सारगर्भिता समीक्षणीया– ईशावास्यश्रुतिमनुसृत्य कर्मोवासनयोः समुच्चयं विवृणुत। (15 marks)
Q2b. अधोनिर्दिष्टानां विषयाणां सारगर्भिता समीक्षणीया– भगवद्गीतामवलम्ब्य स्थितप्रज्ञस्य लक्षणानि प्रतिपादनीयानि। (20 marks)
Q2c. अधोनिर्दिष्टानां विषयाणां सारगर्भिता समीक्षणीया– कौटिल्यमते अमात्यानां शौचाशौचं कथं विद्यात्? (15 marks)
Q3a. अधोनिर्दिष्टानां विषयाणां समीक्षणं विधेयम्– “मुहुर्लक्ष्योद्भेदा मुहुरधिगमाभावगहना … मुहुर्भ्रश्यद्बीजा …” कथनस्यास्य महत्त्वं निरूपयत। (15 marks)
Q3b. अधोनिर्दिष्टानां विषयाणां समीक्षणं विधेयम्– “काव्येषु नाटकं रम्यं, तत्र रम्या शकुन्तला”–सुभाषितमेतत् साध्यम्। (20 marks)
Q3c. अधोनिर्दिष्टानां विषयाणां समीक्षणं विधेयम्– “कारुण्यं भवभूतिरेव तनुते”–सूक्तिमेतां समीक्ष्यताम्। (15 marks)
Q4a. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– मेघदूतमाधृत्य रामगिरितः अलकापुरीपर्यन्तं मेघगमनमार्गं विवृणुत। (15 marks)
Q4b. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– नीतिशतके धैर्यस्य विदुषश्च प्रशंसयोः मूल्याङ्कनं विधेयम्। (15 marks)
Q4c. अधोलिखितानां विवेचनं देवभाषयैव देवनागरीलिप्यामेव च कर्त्तव्यम्– गीतगोविन्दस्य गीतसङ्गीतभक्तीनां त्रिवेणीत्वं साधनीयम्। (20 marks)
Q5a. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– वागर्थाविव संपृक्तौ वागर्थप्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥ (10 marks)
Q5b. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः।
व्रजन्ति विद्याधरसुन्दरीणामनङ्गलेखक्रिययोपयोगम्॥ (10 marks)
Q5c. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– यथाविधिहुताग्नीनां यथाकामार्चितार्थिनाम्।
यथापराधदण्डानां यथाकालप्रबोधिनाम्॥ (10 marks)
Q5d. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम्।
स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः॥ (10 marks)
Q5e. नागराक्षरैः संस्कृतभाषायां प्रत्येकं सार्धशतेन (150) शब्दैः व्याख्यायताम्– सखीनिव प्रीतियुजोऽनुजीविनः
समानमानान्सुहृदश्च बन्धुभिः।
स सन्ततं दर्शयते गतस्मयः
कृताधिपत्यामिव साधु बन्धुताम्॥ (10 marks)
Q6a. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥ (15 marks)
Q6b. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत॥ (20 marks)
Q6c. अधोनिर्दिष्टानां व्याख्या नागराक्षरैः संस्कृतभाषायामेव विधेया– अश्रुपूर्णमुखीं दीनां कृशामनशनेन च।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥ (15 marks)
Q7a. अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श॥ (15 marks)
Q7b. अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – स्वायत्तमेकान्तगुणं विधात्रा
विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे
विभूषणं मौनमपण्डितानाम्॥ (15 marks)
Q7c. अधोलिखितानामाशयः ससन्दर्भं प्रतिपादनीयः – आलोकयतु तावत् कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम्। इयं हि सुभटखड्गमण्डलोत्पलवनविभ्रमभ्रमरी लक्ष्मीः क्षीरसागरात् पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैः श्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुभमणेर्नैष्ठुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनोदचिह्नानि गृहीत्वैवोद्गता। (20 marks)
Q8a. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते।
प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते॥ (15 marks)
Q8b. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्॥ (15 marks)
Q8c. अधोलिखितानां पद्यानां प्रसङ्गनिर्देशपूर्वकं व्याख्या कार्या– अद्वैतं सुखदुःखयोरनुगुणं सर्वास्ववस्थासु यद्
विश्रामो हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः।
कालेनावरणात्ययात्परिणते यत्स्नेहसारे स्थितं
भद्रं तस्य सुमानुषस्य कथमप्येकं हि तत्प्राप्यते॥ (20 marks)
Spotted something wrong?
If a question is in the wrong unit or a match looks wrong, please report an error.
Related: Overall Sanskrit Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

