Here are all 48 questions on अपठितगद्यांशः asked in UPSC Sanskrit Literature Optional Paper I (2009–2026), with the latest questions first.
Each question ends with a code such as [2024/15m/3b] – the year, the marks, the word limit (where UPSC set one) and the question number in the paper.

48 questions
अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यग् अवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्:
मानवानां जीवनंसाफल्यसिद्धये सकलश्रुतिस्मृतिप्रसिद्धाः धर्मार्थकाममोक्षाख्याः चत्वारः परमपुरुषार्थाः अनुष्ठेयत्वेन प्रतिपादिताः । तेषाम् अनुष्ठानम् आरोग्यं विना कदापि सुकरं न भवति । तत् आरोग्यं च युक्ताहारविहारं विना, कर्मसु युक्तचेष्टाम् अन्तरा, युक्तस्वप्नावबोधं चान्तरेण नावाप्तुं शक्यते । अतः आरोग्यसंरक्षणार्थं व्यायामः, प्राणायामः, यमनियमासनादयः योगांङ्गक्रियाकलापाश्च सर्वैरेव जनैः सदा अनुष्ठेयाः । यतः प्रोक्तं वर्तते –
व्यायामपुष्टगात्रस्य बुद्धिस्तेजो यशो बलम् ।
प्रवर्धन्ते मनुष्यस्य तस्माद् व्यायाममाचरेत् ॥
आरोग्यं विना धर्मः सम्यक्तया न परिपाल्यते । अर्थमपि सम्यग् उपार्जयितुं मनः न उत्सहते । दुर्बलाङ्गत्वात् अभिलाषा अपि न प्रपूर्यते । पुण्यैः प्राप्तस्य मानवजन्मनः वैफल्यं नाम दौर्भाग्यमयं कियत् कष्टं भविष्यति । तस्मात् आरोग्यरत्नमिदं सर्वैः बुद्धिमद्भिः सर्वतोभावेन रक्षणीयमेव । समे चत्वारः पुरुषार्थाः अपि एकेन आरोग्येन सर्वासु अवस्थासु संसाध्याः सन्ति । अतः तत्तत्साफल्यावाप्तये आरोग्यमेव एकमावश्यकं साधनं विद्यते विश्वजनानां कृते । स्वस्थे शरीरे एव विद्या अपि समुज्ज्वला तेजस्विनी च भवति । अस्वस्थे दुर्बले वपुषि च सा तेजोविहीना दीनहीनेव च प्रतिभाति । एवमेव गृहस्थसुखमपि पूर्णारोग्ययुक्तानां बलिष्ठानामेव यूनां युवतीनां च कृते सुकरं भवति, न तु रुग्णजीर्णशीर्णवपुष्मताम् ।
प्रश्नाः –
(i) धर्मस्य आद्यं साधनं शरीरमेव कथम्?
(ii) व्यायामस्य साफल्यार्थं यमनियमाचरणं कथमावश्यकम्?
(iii) दुर्बलत्वात् मनोरथपूर्तिः कथं न भवति?
(iv) स्वस्थं मनः कथं स्वस्थं वपुः पोषयति?
(v) गृहस्थसुखार्थम् आरोग्यं कथमपेक्ष्यते? [2026/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यग् अवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्:
स्त्रीशिक्षायाः साम्प्रतं महती आवश्यकता अनुभूयते, यतो हि मातृशक्तेः प्रतीकभूताः स्त्रियः एव एताः सन्ति । शिक्षा पुण्यापुण्यविवेचनी शुभाशुभावबोधनी हिताहितनिदर्शनी कृत्याकृत्यनिर्देशनी, मनसः प्रसादयित्री च वर्तते । यथेयं शिक्षा नराणां हितसाधयित्री सुखसाधनभूता च विद्यते, तथैव स्त्रीणाम् कृतेऽपि अनिवार्या सुखशान्तिसाधिका समुन्नतिमूलिका च । यथा शिक्षामन्तरेण न पुरुषैः अभ्युदयावाप्तिः सुलभा सुकरा च भवति, तथैव स्त्रीणामपि कृते ज्ञेयम् । सद्गृहस्थ-सुरथस्य नरः नारी चेति द्वौ एतौ चक्रद्वयमस्ति । यथा एकेन चक्रेण रथस्य गतिः न सम्भवति, एवं सर्वार्थसाधिकां स्त्रियं विना गृहस्थरथस्य प्रगतिः सुकरा न । नरे विदुषि सत्यपि, यदि सहधर्मचारिणी सुशिक्षाभिः विहीना भवति, तर्हि सुखावहं दाम्पत्यं न । यतो हि द्वयोः एव गुणैः धर्मेण ज्ञानेन शीलेन सौजन्येन च गार्हस्थ्यं सुखम् अनुभूयते इत्यवगन्तव्यम् । यथा ज्ञानमन्तरा नरस्य समुन्नतिः दुर्लभा, तथैव स्त्रियोऽपि । निसर्गादिव एतासु शिशोः भरण-पोषणस्य, गृहसञ्चालनस्य गृहस्थजीवनाय सुखशान्तेश्च उत्तरदायित्वं भवति । शिक्षाम् अनासाद्य स्त्रीभिः स्वीयोत्तरदायित्वस्य परिपालनं कथमपि न सम्भाव्यते । शिक्षालाभाय च न केवलं विविधविषयग्रन्थानां परिशीलनम् एव पर्याप्तमस्ति, अपि तु व्यावहारिक-सामाजिकयोः विविधानां विद्यानां विज्ञानानां च परिज्ञानम् अपि तासां कृतेऽनिवार्यम् । अतोऽनुभूयते सर्वत्र यत्, सुशिक्षितैव स्त्री सद्गृहिणी सती साध्वी सत्कर्मपरायणा वंशप्रतिष्ठास्वरूपा च भवितुमर्हति । उच्यते च –
‘न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते ।’
प्रश्नाः –
(i) शिक्षया के सुपरिणामाः समुपलभ्यन्ते?
(ii) समाजे गृहस्थरथः कथं प्रवर्तते?
(iii) नारीशिक्षां संवर्धयितुं किमनुष्ठेयम्?
(iv) सुशिक्षितैव स्त्री कथं सद्गृहिणीपदम् अवाप्तुमर्हति?
(v) गृहसञ्चालने स्त्री कथं निसर्गपटुः भवति? [2026/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यक् अवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्:
पुरा त्रयो व्यवसायाः प्रधानरूपेण प्रचलिता आसन् – कृषिः पशुपालनं शिल्पं च । एतैर्निष्पन्नानि वस्तूनि व्यापारद्वारा देशेषु विदेशेषु च प्रेष्यन्ते स्म । प्राचीना भारतीयाः कृषिप्रधाना आसन् सम्प्रत्यपि सन्ति । कृषिजं वस्तु अवलम्ब्य माङ्गलिको विधिरनुष्ठीयते । अन्नस्य महिम्ना कृषिगौरवं ज्ञायते । तथा हि – अन्नं न निन्द्यात् । अन्नवानन्नादो भवति । अन्नं न परिचक्षीत । अन्नं बहु कुर्वीत । तद् व्रतम् । एवं तैत्तिरीयोपनिषदन्नस्य महिमानं स्तौति । अन्नं ब्रह्मेति मतम् । नवीनप्रस्तरयुगे वन्यानामन्नानां भोज्यत्वमभोज्यत्वं वा परिज्ञातुं प्रयासोऽभवत् । खाद्यान्नानां कृषिविधिना कृत्रिमैरुपायैर्विकासः समारब्धः । तस्मात् कालादारभ्य कस्मिन् ऋतौ कीदृशे च क्षेत्रे कियन्मात्रं बीजं वपनीयम्, तस्य सुसंवर्धनाय कियत् सेचनं कर्तव्यम्, भूमेरुत्पादकशक्तिः कथं वर्धनीयेति समस्या अधिकृत्य सम्यग्गवेषणं कृतम् । प्रयतमानाश्च ते कृषका अस्मिन् विषये स्वदेशस्य विदेशानां च बीजानि फलानि च स्वदेशे संवर्धितवन्तः । नित्यमेव वन्यानां कृषिजानां चान्नानां कृषिकल्पं कृतवन्तः ।
प्रश्नाः –
(i) पुरा के के व्यवसायाः प्रचलिताः?
(ii) अन्नस्य महिमा कीदृशं स्तूयते स्म?
(iii) नवीनप्रस्तरयुगे कीदृशः प्रयासः समारब्धः?
(iv) कृषिनिमित्तं कीदृशं गवेषणं कृतम्?
(v) कृषकाः अस्मिन् विषये किं कृतवन्तः? [2025/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यक् अवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्:
गृहत्यागादनन्तरं सिद्धार्थः सत्यस्य साधनायां संलग्नोऽभवत् । पञ्चभिर्भिक्षुभिः अटन् ऊरुबेलायामेकान्तक्षेत्रे स प्राविशत् । सत्यसन्धानाय स तत्र स्थितवान् । जनाः तं शाक्यमुनिरिति ज्ञातवन्तः । तस्य अयं कालः आर्यपर्यवेक्षणाकाल उच्यते । शाक्यमुनिः सत्यानुसन्धाने शान्तिपर्येषणायां च भ्रमति स्म । स कठोरान् नियमान् पालयामास । परन्तु आत्मशान्तिर्न लब्धा । ध्यानयोगेन अपि सन्तोषो न प्राप्तः । योगाभ्यासेनापि जरामरणादीनामन्तो नावलोकितः । षड् वर्षाणि कृच्छ्रं तपः कृत्वा विषादग्रस्तः सन् तत् स्थानं परित्यज्य स गयां गतवान् । तत्र निरञ्जनानदीतटे पिप्पलस्याधः कृतसंकल्पः समासीन आसीत् । सम्बोधिप्राप्त्यै स समाधिस्थः अभवत् । तस्यामवस्थायां सम्बोधिबलेन तस्य आर्यसत्योपलब्धिर्जाता । रात्रेः प्रथमे प्रहरे स्वजीवनस्यातीतमितिहासं द्वितीये प्रहरे च दिव्यदृष्टिबलेन कर्मफलभोगे मग्नं संसारमवलोकितवान् । तृतीये प्रहरे जरामरणादीनां द्वादशानां निदानानां ज्ञानं प्राप्तम् । ततः तेषां निदानानां निवारकस्वरूपस्य निर्वाणस्य अनायासोपलब्धिर्जाता । तस्य साधना फलवती अभवत् । आर्यसत्यानां यथार्थज्ञानेन स बुद्धत्वं प्राप्तवान् ।
प्रश्नाः –
(i) सिद्धार्थः ऊरुबेलायां केन रूपेण उपस्थितः?
(ii) स कथं शाक्यमुनिः बभूव? स च कथं भ्रमति स्म?
(iii) शाक्यमुनिरूपेण तस्य का स्थितिः अभवत्?
(iv) स कुत्र केन प्रकारेण सम्बोधिं प्राप्तवान्?
(v) स सम्बोधेः अनन्तरं कथं बुद्धत्वं प्राप्तवान्? [2025/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्:
समग्रमपि जगत् अस्मदीयं कुटुम्बम् इत्येतां भावनां लोके या संस्कृतिः सभ्यता वा प्रासारयत् सा वैदिकी संस्कृतिरेव वर्तते । अस्याः संस्कृतेः प्रतिपादकानि सन्ति श्रुतयः स्मृतयः दर्शनानि, पुराणानि, गद्यपद्यनाटकादीनि सर्वाणि पुस्तकानि । एतेषां सर्वेषाम् एक एव स्वरो वर्तते यन् निखिलं विश्वं नीडवद् वर्तते । भारतीया महर्षयः एतस्मादेव कारणात् तादृशानाम् आदर्शानां, मूल्यानां, संस्काराणां प्रसारणमुचितं मेनिरे यादृशैः संस्कारैर्मानवस्य संकीर्णतानुदारतास्वार्थपरायणतादिदोषाः मलिना भवन्ति । मानवानां निर्माणकारि-उपादानं नानेकविद्या, न कलापारङ्गता, न ऐश्वर्यशालिता, न सुरूपता, नोच्चकुलतास्ति । मानवनिर्माणस्योपादानानि तु अन्यानि एव सन्ति । ईशावास्योपनिषद् एतादृशमेकमुपादानं मानवनिर्माणकरं ज्ञापयति यस्मिन् सत्यन्यस्यापेक्षैव न स्यात् –
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥
मानवो येन निर्मीयते तदुपादानमुद्दिश्य पुनः ईशावास्योपनिषदाह –
‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’
‘तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद् धनम्’ इति ।
(i) का नाम संस्कृतिः विश्वं नीडवद् मन्यते?
(ii) अस्याः संस्कृतेः प्रतिपादकाः ग्रन्थाः के?
(iii) महर्षिभिः कीदृशाः संस्काराः प्रतिपादिताः?
(iv) मानवानां निर्माणकारीणि उपादानानि कानि न सन्ति?
(v) मानवनिर्माणकारि-उपादानेषु ईशावास्योपनिषदः कः सन्देशः? [2024/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः: अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिर्भवेत्:
अस्ति वेदान्तदर्शनं सर्वदर्शनमूर्धन्यम् । शारीरकमीमांसेत्येतयापि समाख्ययेदं शास्त्रं सर्वविदितम् । सन्त्यस्योपजीव्या उपनिषद् एव । वेदस्यान्तिमसिद्धान्तस्य निरूपकत्वादुपनिषदामिवास्यापि ‘वेदान्त’ इत्येषा संज्ञा अन्वर्था । औपनिषदानां वचनानां मिथो विरोधेनावभासमानानां सिद्धान्तानां विरोधपरिहाराय भगवान् बादरायणो व्यासो ब्रह्मसूत्रमित्यपरसंज्ञकं दर्शनमिदं प्राणैषीत् । एतत् ब्रह्मसूत्रनामकं दर्शनमखिलवेदान्तसिद्धान्तानामाकरग्रन्थः । भिक्षूणामादरणीयत्वाद् उपादेयत्वाच्च दर्शनमिदं भिक्षुसूत्रम् इत्येतामपि संज्ञां भजते ।
ब्रह्मसूत्रस्य बहवः भाष्यकाराः सन्ति । शङ्करभास्कररामानुजमध्वनिम्बार्कश्रीकण्ठश्रीपतिवल्लभविज्ञानभिक्षुबलदेवाः सन्ति प्रमुखाः अस्मिन् क्रमे । वेदान्तसाहित्यं विपुलतममस्ति । रामानुजमध्वनिम्बार्कवल्लभप्रभृत्याचार्याणां तेषामनुयायिनाञ्च साहित्यं वेदान्तदर्शनस्य भाण्डागारं सुतरां वर्धयति । दर्शनान्तरस्य किञ्च अन्येषामपि विषयाणां भाण्डागारमनायासेनैव अधरीकरोति ।
(i) वेदान्तदर्शनं कीदृशं दर्शनमस्ति? किमर्थं चास्य ‘वेदान्तसंज्ञा’ भवति?
(ii) वेदान्तदर्शनस्य उपजीव्याः काः?
(iii) दर्शनस्यास्य कानि अपराणि नामानि?
(iv) को ब्रह्मसूत्रं प्राणैषीत् किमर्थं च?
(v) ब्रह्मसूत्रस्य के प्रमुखा भाष्यकाराः सन्ति? [2024/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
पृथिव्येषा माताऽस्मदादीनाम्। पृथिवीं विना जीवनस्य कल्पनाऽपि कर्तुं न शक्यते। पृथिव्यां जनसंख्यायाः महाभारः निरन्तरं वर्धत एव। नगरीकरणं तस्याधारभूतसंरचनाविकासार्थं च तरूणां निरन्तरमविचारितकर्त्तनं, प्राकृतिकसंसाधानामसीमितदोहनम्, अनावश्यकतटबन्धनिर्माणं सरित्सु–सर्वाण्येतानि पृथिवीं भृशं प्रदूषयन्ति। महोल्बायाः (ozone) अजस्रं क्षरणेन निखिले जगति प्रखरः असह्यश्च तापः भूयशः वर्धमानस्तिष्ठति। हिमानीगलनेन विश्वं भयाक्रान्तं जातम्। पृथिव्याः पर्यावरणस्य च रक्षणाय वृक्षारोपणमभियानरूपेण संचालयेयुः। जनैः स्वस्वजन्मदिवसेषु एकः फलवान् वृक्षः अवश्यमेव रोपणीयः। निपानेषु, जलाशयेषु, नदीषु, सागरेषु, पर्वतमालासु च अपशिष्टप्रक्षेपणात् आत्मनः निवारयेयुः। उपायैरेतैरस्मदीया पृथिवी आगामिवंशेभ्यः निवासार्हा भविष्यति।
(i) का माताऽस्मदादीनाम्?
(ii) पृथिव्यां कः निरन्तरं वर्धते?
(iii) नगरीकरणस्य विकासार्थं कानि कार्याणि क्रियमाणानि सन्ति?
(iv) महोल्बायाः क्षरणेन पृथिव्यां कः वर्धते?
(v) पृथिव्याः रक्षणाय किमभियानं सञ्चालनीयम्? [2023/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिर्भवेत्–
श्रीअन्नं स्वास्थ्यस्य पोषणस्य च दृष्ट्या अतिमहत्त्वपूर्णमस्ति। तस्मादेवाद्यत्वे श्रीअन्नं ‘सुपरफूड’ पोषणदायकमन्नमित्युच्यते। वज्रान्नं भविष्यान्नमिति सम्बोध्यते। श्रीअन्नोत्पादकेषु देशेषु भारतं शीर्षस्थं गण्यते। श्रीअन्ननिर्याते च द्वितीयस्थाने वर्तते अस्मद्देशः। श्रीअन्नानि एसिडग्लूटिनसशून्यानि सुपाच्यानि पौष्टिकानि च खाद्यान्नानि इति मन्यन्ते विशेषज्ञैः। वज्रान्नसेवनेन मधुमेहरोगभयं क्षीणतरं कर्तुं शक्यते। वज्रान्नं कैल्शियमायरनजिंकफास्फोरसमैग्नीशियमपोटैशियमप्रभृतीनां खनिजानां समृद्धं स्रोतः अस्ति। अस्य नियमितसेवनेन कुपोषणवारणे महत्साहाय्यं प्राप्यते। यवनालः, वज्रान्नं, प्रियङ्गुः, कङ्गुः, कोद्रवः अणुश्च सकलानीयानि श्रीअन्नानि स्वास्थ्यवर्धकानि पोषणकराणि च सन्ति। सर्वकारैः कृषीवलाः श्रीअन्नोत्पादनसंवर्धनाय नैकविधं प्रेर्यमाणाः सन्ति।
(i) श्रीअन्नं किमर्थं महत्त्वपूर्णमस्ति?
(ii) कानि ‘सुपरफूड’ इत्युच्यन्ते?
(iii) कैः रहितानि श्रीअन्नानि सुपाच्यानि भवन्ति?
(iv) वज्रान्नसेवनेन कस्य रोगस्य भयं क्षीणतरं सञ्जायते?
(v) कस्य नियमितसेवनं कुपोषणं वारयति? [2023/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
भवतः सफलतायै जगत् भवतः आदरं कुर्यात्। साफल्यस्य किमपि विवरणम् अपेक्षितं न भवति। तथा च वैफल्येन तु विवरणं न अनुमन्यते। परं भवतः आत्मगौरवभावना तावती अपेक्षिता यत् सफलता वा भवतु विफलता वा तेन भवतः आत्मविश्वासः कदापि नष्टः न भवेत्। यदि भवान् 10% अवसरेषु सफलः भवति तर्हि भवान् सम्यगेव कुर्वन् अस्ति इति मन्तव्यम्। यदि भवान् सर्वदा शतप्रतिशतं सफलः एव भवति तर्हि भवता स्वमुद्दिश्य प्रश्नः कर्तव्यः यत् ‘मया पर्याप्तमात्रायाम् अपायाह्वानं (risk) स्वीक्रियमाणम् अस्ति उत न’ इति। यदि भवान् पर्याप्तमात्रायाम् अपायाह्वानं स्वीकुर्वन् नास्ति तर्हि भवान् बहून् अवसरान् त्यक्तवान् इत्यर्थः। सम्यक् चिन्तयन्तु परन्तु महत् पदं निक्षिपतु। यदि कश्चन दोषः भवति तर्हि ततः पाठं पठतु। जीवनं भवतः उपरि सर्वविधमालिन्यं क्षिपेत्। कौशलं नाम भवता तेन अधः पातितेन न भवितव्यम्। वयं गभीरतमकूपेभ्यः अपि बहिः आगन्तुं शक्नुयाम–अस्थगनेन, प्रयत्नस्य अत्यागेन च। मालिन्यम् उज्जहातु। पदमेकम् उपरि निदधातु।
(i) आत्मगौरवभावनया किं भवितुमर्हति?
(ii) स्वमुद्दिश्य कः प्रश्नः कर्तव्यः?
(iii) अपायाह्वानस्य स्वीकरणं किमर्थम् आवश्यकम्?
(iv) कुतः पाठः स्वीकरणीयः?
(v) गभीरतमकूपेभ्यः कथं बहिः आगन्तुं शक्नुयाम? [2022/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
संस्कृतकक्षासु भाषारूपेण संस्कृतभाषायाः प्रयोगेण संस्कृतस्य लाभः। प्रयोगे अकृते सः लाभः नास्ति इति तावदेव खलु इति प्रश्नः भवेत्। अलाभः इति केवलं न, हानिः अपि भवति। संस्कृतस्य भाषारूपेण अप्रयोगेण अन्यभाषाप्रयोगेण च छात्राणां मनसि संस्कृतं कठिनं तया भाषितुं अशक्या, सा निर्जीवा इत्यादयः भावनाः दृढतराः भवन्ति। तादृशभावनिर्माणे वयमेव कारणीभूताः भवामः। एवम् अप्रयोगेण न केवलम् अलाभः अपितु संस्कृतभाषायाः हानिः एव। एवं संस्कृतकक्षासु अन्यभाषाप्रयोगः नाम संस्कृतभाषायाः ह्रासस्य मार्गकल्पनम् इव। अतः संस्कृतकक्षासु संस्कृतभाषाप्रयोगः पुण्याय भवेत्, संस्कृतभाषायाः अप्रयोगः अपुण्याय भवेत्। संस्कृतभाषायाः अन्यभाषामाध्यमेन पाठनं कठिनतररूपेण पाठनं दुरवगम्यस्य प्रौढसंस्कृतस्य प्रयोगः च संस्कृतस्य पातनाय इव। संस्कृतभाषायाः संस्कृतभाषामाध्यमेन पाठनम्, आकर्षकपद्धत्या पाठनम्, सरलतमसंस्कृतस्य प्रयोगः च भाविसंस्कृतभवनस्य एकैकस्याः इष्टिकायाः स्थापनम् इव।
(i) संस्कृतकक्षासु संस्कृतभाषायाः अप्रयोगेण कीदृशी हानिः भवति?
(ii) “संस्कृतभाषाप्रयोगः पुण्याय।” स्पष्टीक्रियताम्।
(iii) ‘संस्कृतं कठिनम्’ एतादृशी भावना छात्राणां मनसि कथम् आयाति?
(iv) संस्कृतस्य पातनाय के कारकाः भवन्ति?
(v) संस्कृतभवनस्य एकैकस्याः इष्टिकायाः स्थापनं केन मार्गेण भवितुमर्हति? [2022/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं पठित्वा तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन प्रदत्त। प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्–
अस्ति कस्मिंश्चिदधिष्ठाने चित्ररथो नाम राजा। तस्य योधैः सुरक्ष्यमाणं पद्मसरो नाम सरस्तिष्ठति। तत्र च प्रभूता जाम्बूनदमया हंसास्तिष्ठन्ति। षण्मासे षण्मासे पिच्छमेकैकं परित्यजन्ति। अथ तत्र सरसि सौवर्णो बृहत्पक्षी समायातः। तैश्चोक्तः –अस्माकं मध्ये त्वया न वस्तव्यं येन कारणेनास्माभिः षण्मासान्ते पिच्छैकैकदानं कृत्वा गृहीतमेतत्सरः। एवं च किं बहुना परस्परं द्वैधमुत्पन्नम्। स च राज्ञः शरणं गतोऽब्रवीत्–देव! एते पक्षिण एवं वदन्ति यदस्माकं राजा किं करिष्यति। न कस्याप्यावासं दद्मः। मया चोक्तम्–न शोभनं युष्माभिरभिहितम्। अहं गत्वा राज्ञे निवेदयिष्यामि। एवं स्थिते देवः प्रमाणम्। ततो राजा भृत्यानब्रवीत्–भो भोः! गच्छत। सर्वान् पक्षिणो गतासून् कृत्वा शीघ्रमानयत। राजादेशानन्तरमेव प्रचेलुस्ते। लगुडहस्तान् राजपुरुषान् दृष्ट्वा तत्रैकेन पक्षिणा वृद्धेनोक्तम्–भोः स्वजनाः! न शोभनमापतितम्। ततः सर्वैरेकमतीभूय शीघ्रमुत्पतितव्यम्। तैश्च तथानुष्ठितम्।
(i) पद्मसरः कस्य कथं च सुरक्षितम्?
(ii) तत्र के किं कुर्वन्तः तिष्ठन्ति?
(iii) आगतेन बृहत्पक्षिणा तेषां कीदृशं सम्भाषणं जातम्?
(iv) बृहत्पक्षी राज्ञे किं निवेदितवान्?
(v) राजादेशानन्तरं किं किमभूत्? [2021/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं पठित्वा तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन प्रदत्त। प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्–
मित्रगुप्तोऽप्याचचक्षे–सोऽहमपि सुहृत्साधारणभ्रमणकारणः सुह्मेषु दामलिप्ताह्वनगरस्य बाह्योद्याने महान्तमुत्सवसमाजमालोकयम्। तत्र क्वचिदतिमुक्तकलतामण्डपे कमपि वीणावादनेनात्मानं विनोदयन्तमुत्कण्ठितं युवानमद्राक्षम्, अप्राक्षं च–“भद्र को नामायमुत्सवः? किमर्थं वा समारब्धः? केन वा निमित्तेन उत्सवमनादृत्य एकान्ते भवानुत्कण्ठित इव वीणाद्वितीयस्तिष्ठति?” इति। सोऽभ्यधत्त–“सौम्य सुह्मपतिस्तुङ्गधन्वा नामानपत्यः प्रार्थितवान् अमुष्मिन् आयतने वसन्त्या विन्ध्यवासिन्याः पादमूलादपत्यद्वयम्।” अनया च अस्मै प्रतिशयिताय स्वप्ने समादिष्टम्–“समुत्पत्स्यते तव एकः पुत्रः, जनिस्यते चैका दुहिता। स पुत्रो भगिन्याः आदरं करिष्यति। सा तु सप्तमाद् वर्षादारभ्य आपरिणयनात् प्रतिमासं कृत्तिकासु कन्दुकनृत्येन गुणवद्भर्तुः लाभाय मां समाराधयतु। यं चाभिलषेत् सा अमुष्मै देया। स चोत्सवः कन्दुकोत्सवनामास्तु” इति।
(i) मित्रगुप्तः किं कुर्वन् उत्सवं दृष्टवान्?
(ii) उद्याने स कीदृशं युवानम् अपश्यत्?
(iii) तं युवानं मित्रगुप्तः किं पृष्टवान्?
(iv) स युवकः किम् अभिहितवान्?
(v) सुह्मपतिः स्वप्ने कं समादेशं प्राप्तवान्? [2021/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखित-सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
वास्तविकं भारतवर्षं नगरापेक्षया ग्रामेष्वेव निवसति। स्वातन्त्र्यस्यावश्यकतापि तेभ्य एवास्तीति विज्ञाय ग्रामीणानामावश्यकतां मनोभावप्रवृत्तिञ्च ज्ञातुं महात्मा-गान्धीरपि निवास-वेषभोजनादिभिर्ग्रामीण एव संवृत्तः। यन्त्रालयानां प्रचारेण समुत्पन्नानां कार्याभाव-कृत्रिमता-दुराचार-आर्थिकशोषण-वर्ग संघर्षादीनामपसारणाय ग्रामोद्योगानां प्रसारमीहमानेनानेन ग्रामोद्योगसङ्घोऽपि संस्थापितः। इत्थं तर्कुयन्त्र-गृहोद्योग-ग्रामोद्योगादि-वैयक्तिकोद्योगानां विकासेन आर्थिकसमस्यायाः सुधारोऽपि कर्तुं शक्यते। आङ्ग्लानां वैभववृद्धिमूलं मुख्यतया वस्त्रवाणिज्यमेवास्ति, एतदर्थमेव तैर्विश्वस्य महान् भूभागः स्वायत्तीकृतः। अतस्तेषां वाणिज्यविनाशाय महात्मा विदेशीय-वस्तु-बहिष्कारं खादीप्रचारञ्च कुर्वन्नास्ते। अयं धर्माद् राजनीतिं पृथक् न मन्यते। गान्धिवादस्य अहिंसा सत्यञ्चेति द्वावेव आधारभूतौ सिद्धान्तौ विद्येते। शान्तिमयसाधनैः सहयोगेन सामञ्जस्येन च सर्वासां समस्यानां पूर्तिश्चिकीर्षति। विश्वेषां स्वाधीनतासमर्थकोऽयं वादः सत्ताधारिणां विनाशापेक्षया तान् संरक्षकत्वेन स्वीकरोति।
(i) महात्मा-गान्धिना ग्रामोद्योगसङ्घः किमर्थं संस्थापितः?
(ii) विदेशीय-वस्तु-बहिष्कारस्य प्रयोजनं किमासीत्?
(iii) गान्धी किं कारणमाश्रित्य ग्रामीण एव संवृत्तः?
(iv) गान्धिवादस्य कानि वैशिष्ट्यानि?
(v) सर्वासां समस्यानां पूर्तिः कथं भवितुमर्हति? [2020/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकम् उत्तरं 3-4 पंक्तिभिः भवेत्–
विश्वधर्मसम्मेलने प्रथमदिने स्वामी विवेकानन्दः पञ्चदशनिमेषान् यावदेव भाषणम् अकरोत्, तावता एव सः जगद्विख्यातः जातः। भाषणकरणात् पूर्वं सः आसीत् कश्चित् अनामधेयः। परं तस्य भाषणस्य अनन्तरं तु सर्वासु अपि वृत्तपत्रिकासु तस्य एव भावचित्रं विराजते स्म। सर्वेषां मुखेऽपि तस्य एव नाम। भाषणानन्तरं स्वामिनः करांशुकस्य अञ्चलस्य स्पर्शार्थं सहस्रशः महिलाः अहमहमिकया अग्रे आगताः। तत् दृष्ट्वा काचित् ज्येष्ठा महिला अवदत्–“वत्स, भवता अत्र यदि जयः प्राप्येत तर्हि निश्चयेन भवान् देवपुत्रः एव” इति। कोट्यधीशाः स्वगृहं प्रति स्वामिनः निमन्त्रणाय स्पर्धमानाः आसन्। प्रासादसदृशानि गृहाणि हंसतूलिकातल्पादयः च तं प्रतीक्षन्ते स्म किन्तु सः ततः लेशमात्रेणापि विचलितः न जातः। जनानां निन्दापात्रतां गतेन तेन यथा नैराश्यं नानुभूतं तथा अभूतपूर्वं सत्कारं प्राप्तवता अपि तेन आत्मविस्मृतिः न प्राप्ता। स्तुतिनिन्दयोः समत्वं तेन रक्षितम्। गर्विष्ठान् पाश्चात्त्यदेशान् प्रति स्वस्य योग्यतमं पुत्रमेव दूतरूपेण प्रेषयन्ती भारतमाता तेन गौरवान्विता जाता।
(i) स्वामी विवेकानन्दः कथं जगद्विख्यातः जातः?
(ii) कस्याश्चित् ज्येष्ठायाः प्रतिक्रिया स्वामिनं विषये काऽऽसीत्?
(iii) भाषणानन्तरं कीदृशं परिवर्तनं तत्र दृश्यते स्म?
(iv) स्तुतिनिन्दयोः समत्वं विवेकानन्देन कथं रक्षितम्?
(v) भारतमाता किमर्थं गौरवान्विता जाता? [2020/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखित-सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
अन्तिम-समये बुद्धः कुशीनारा-स्थानमागत्य हिरण्यवती-नद्यास्तटे शालवने अतिष्ठत्। बुद्धस्तत्र शयितवान् उक्तवान् च “आनन्द ! यः धर्मः मया उपदिष्टः स्पष्टीकृतश्च स एव शास्ता मन्तव्यः” इति। एवमुक्त्वा बुद्धो ध्यानमग्नो बभूव। तस्य शरीरपातः प्राणत्यागः वा तदानीमेव जातः। बुद्धे परिनिवृत्ते सति बहवः भिक्षवः क्रन्दितुं प्रवृत्ताः। परं सुभद्रनामा भिक्षुः बुद्धस्य शरीरपातेन प्रसन्नः अभूत्। सर्वान् भिक्षून् आहूय स उक्तवान्–सम्प्रति शोकं न कुरुत। एतन्न कुरुत, तन्न न कुरुत, एतत् कुरुत, तत् कुरुत इति वक्ता प्रस्थितः। बुद्धाज्ञयाः वयं मुक्ताः। अधुना यथेच्छं कर्तुं शक्नुमः। सुभद्रस्य वचनं श्रुत्वा बुद्धस्य वरिष्ठः शिष्यः महाकाश्यपः चिन्तितवान् यद् एतस्या अव्यवस्थायाः पूर्वमेव बुद्धवचनानां प्रामाणिकं सङ्कलनं यथा शीघ्रं करणीयमिति। स्वचिन्तितं कार्यरूपेण परिणतं कर्तुं स निश्चितवान्। राजगृहनगरे राज्ञः अजातशत्रोः साहाय्येन एका सभा आहूता। तत्र पञ्चशतसङ्ख्यकाः अर्हन्तः निमन्त्रिताः। साभापत्यं च स्वयं महाकाश्यपेन कृतम्। अस्यां सभायां सङ्घस्य सर्वे बुद्धकृताः नियमाः बुद्धोपदेशाः च सङ्कलिताः कण्ठीकृताश्च।
(i) बुद्धस्य शरीरपातः प्राणत्यागः वा कुत्र कदा च जातः?
(ii) बुद्धे शरीरपाते सति सुभद्र-भिक्षोः प्रसन्नतायाः किं कारणमासीत्?
(iii) केन राज्ञः साहाय्येन सभा आहूता? किं प्रयोजनमासीत् सभायाः?
(iv) सभायां कति अर्हन्तः निमन्त्रिताः? तस्याः सभायाः च साभापत्यं केन कृतम्?
(v) सभायाः कार्यरूपेण परिणतिः केन प्रकारेण सञ्जाता? [2019/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
वेदाध्ययने ज्ञायते यत् मानवजीवनं चतुर्षु विभागेषु विभक्तम्। ते चत्वारो विभागाः चत्वारः आश्रमा अप्युच्यन्ते। आश्रम्यते स्थीयते यस्मिन् स आश्रमः। ब्रह्मचर्य-गृहस्थ-वानप्रस्थ-संन्यासाश्चत्वारः एते आश्रमाः। तेषु प्रथमः सर्वैरपरिहार्यत्वेन परिपालनीयः। गृहस्थादित्रयः आश्रमास्तु ऐच्छिकाः। विद्याध्ययनं, तपोमयजीवनयापनं, सर्वविधगुणानां संग्रहश्चाश्रमेऽस्मिन् प्रधानानि कर्तव्यानि। ब्रह्मचर्यकाले ब्रह्मचारिणः गुरुकुलाश्रमे निवसन्तः आचार्यसकाशात् विविधाः विद्याः, शिल्पकलाः, विज्ञानानि च निःशुल्कं शिक्षन्ते स्म। द्वितीयः आश्रमः गृहस्थाश्रमोऽस्ति। भौतिकी शारीरिकी मानसिकी च समुन्नतिः, भौतिक-विषयाणामुपभोगः, दाम्पत्यजीवनयापनं, वंशप्रतिष्ठायै सन्तानोत्पत्तिश्चाश्रमेऽस्मिन् विशिष्टानि कर्माणि। गृहस्थाश्रमः सर्वेषु आश्रमेषु श्रेष्ठोऽस्ति। यथा वायुं समाश्रित्य सर्वे जन्तवः जीवन्ति तथैव सर्वे आश्रमाः गृहस्थाश्रमाश्रिताः सन्ति, यतः गृहस्थेन त्रयोऽपि आश्रमिणो नित्यं ज्ञानेनान्नेन च प्रतिपालिताः भवन्ति। अस्य गृहस्थाश्रमस्य चोपक्रमः विवाहसंस्कारेण सञ्जायते। वस्तुतः सन्तानोत्पत्त्यै विवाहः आवश्यकम्। न क्षणिकसम्भोगलक्षणं हि तद्विवाहो नाम। एष खलु दम्पत्योः चिरजीवनमिलनरूपः। नारी न मनाक् सम्भोगवस्तुरूपा अपितु सम्मान्या, श्रद्धास्पदा, गृहसाम्राज्ञीस्वरूपा च। न केवलं दम्पत्योरेव शान्तिर्विवाहे निर्भरा किन्तु समाजस्य शान्तिरपि सुतरामनुसन्दधाति। इत्थं विवाहस्य वैशिष्ट्यमस्ति, नास्ति अस्मिन् कोऽपि सन्देहः।
(i) का परिभाषा आश्रमस्य? ब्रह्मचारिणः गुरुकुलाश्रमे के के विषयाः शिक्षन्ते स्म?
(ii) ब्रह्मचर्याश्रमे कानि प्रधानानि कर्तव्यानि?
(iii) गृहस्थाश्रमे कानि विशिष्टानि कर्माणि?
(iv) गृहस्थाश्रमः कथं श्रेष्ठोऽस्ति?
(v) किं विवाहो नाम? तस्य किं वैशिष्ट्यञ्च? [2019/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखित-सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
आसीदशेषनरपतिशिरः समभ्यर्चितशासनः पाकशासन इवापरः, चतुरुदधिमालामेखलाया भुवो भर्ता, चक्रवर्तिलक्षणोपेतः, हर इव जितमन्मथः, गुह इवाप्रतिहतशक्तिः, वैनतेय इव विनतानन्दजननः राजा शूद्रको नाम।
नाम्नैव यो निर्भिन्नारातिहृदयो विरचितनरसिंहरूपाडम्बरम्, एकविक्रमाक्रान्तसकलभुवनतलो विक्रमत्रयायासितं जहासेव वासुदेवम्।
यश्च मनसि धर्मेण, कोपे यमेन, प्रसादे धनदेन, प्रतापे वह्निना, वाचि सरस्वत्या, मुखे शशिना, बले मरुता, प्रज्ञायां सुरगुरुणा, तेजसि सवित्रा च वसता सर्वदेवमयस्य प्रकटितविश्वरूपाकृतेरनुकरोति स्म भगवतो नारायणस्य।
यस्य च हृदयस्थितानपि पतीन् दिधक्षुरिव प्रतापानलो वियोगिनीनामपि रिपुसुन्दरीणामन्तर्जनितदाहो दिवानिशं जज्वाल।
(i) राजा शूद्रकः कीदृशः आसीत्?
(ii) सः कथं विष्णोः उपहासं करोति स्म?
(iii) तेन नारायणस्य अनुकरणं कथं कृतम्?
(iv) शूद्रके के-के गुणाः आसन्?
(v) राज्ञः प्रतापानलः रिपुसुन्दरीणां हृदयानि कथं ज्वालयति स्म? [2018/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतभाषया समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानाम् उत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत्–
आसीद् धुल्लिकापुरे पार्वती नाम स्वदेवरनिकेतने दास्यकर्म कुर्वाणा काचिद् गतभर्त्तृका। बालाम् इमां सुवर्ण-सवर्णाङ्गीं कमललोचनां केनचिद् बालवरेण परिणाय्य तत् पितरौ दिवं गतौ। अचिराद् विवाहोत्तरं स बालपतिरपि तावन्वगात्। ततः प्रभृति बालविधवेयं भर्त्तृ-बन्धु-जनालये दीनभावा कथमपि जीवनयात्राम् असाधयत्। अथ आभानूदयाद् अनिशं कूपात् जलम् आहरन्ती, वस्त्र-संचयं धावन्ती क्षणमपि विश्रान्तिसुखं नोपलेभे। तद्देवरस्य आत्मजः पञ्चवर्षीयो निर्व्याजमधुरालापः तस्या एकमेवावलम्बनं बभूव।
अथ गच्छत्सु वर्षेषु कश्चिद् युवा पार्वत्या हृदयम् अगाहत। कश्चित् प्रवासी पार्वती कूपसन्निधौ दिवापश्यन् रात्रौ च मनसा विचिन्तयन् पुरेऽस्मिन् व्यलम्बत। तस्या अपूर्वलावण्यं दर्शं दर्शं विमोहितोऽभूत् तरुणोऽधिकाधिकम्।
एकदा कूपात् जलम् उद्धृत्य गृहं निवर्त्तमानायाः पार्वत्याः पंकिलायां भूमौ पदम् अस्खलत् सहसा च भूमौ न्यपतत्।
(i) पार्वती कुत्र कि कुर्वती निवसति स्म?
(ii) तस्याः शरीरलावण्यं कीदृशम् आसीत्?
(iii) विधवायाः तस्याः आलम्बनं किम् आसीत्?
(iv) पार्वत्याः हृदये कः प्रविष्टः?
(v) सा मार्गे कथं पतिता? [2018/25m/8b]अधोलिखिताः सर्वे प्रश्नाः संस्कृतेन समाधेयाः – अधोलिखित-सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत् –
कविशब्दस्य मौलिको व्यापकश्चार्थोऽस्ति ‘इन्द्रियगोचरतत्त्वानां साक्षात्कर्ता पुरुषः’ इति । ‘कवयः क्रान्तदर्शिनः’ इति निरुक्तशास्त्रोक्तिः । ऋषिशब्दस्यापि अयमेव महत्त्वपूर्णोऽर्थः । अध्यात्म-शास्त्रमर्मज्ञस्य विदुषः प्राचीनमभिधानं ‘कविः’ इत्येवास्ति । एतस्मिंश्चैवार्थेऽस्य शब्दस्य प्रयोगो न केवलं गीतायाम् उपनिषत्स्वेवोपलभ्यते प्रत्युत संहितास्वपि महनीयोऽयं शब्द एतस्मिन्नेवार्थे बहुलं प्रयुज्यमान उपलभ्यते । उक्तं हि कठोपनिषदि –
“क्षुरस्य धारा निशिता दुरत्यया । दुर्गं पथस्तत् कवयो वदन्ति ॥”
इदं चापि विशेषतो ध्येयं यत् परब्रह्मार्थे कविशब्दप्रयोगो बहुत्र समुपलभ्यते, यथा ईशावास्योपनिषदि –
“कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ।”
उपनिषदां स्वरे एव स्वं स्वरं मेलयन्ती श्रीमद्भगवद्गीताऽपि गायति –
“कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद् यः ।”
(i) ‘कवि’शब्दस्य मौलिकः अर्थः कः?
(ii) ‘कवि’शब्दस्य अध्यात्मशास्त्रमर्मज्ञरूपः अर्थः कुत्र कुत्र उपलभ्यते?
(iii) कठोपनिषदि दुर्गमः अध्यात्ममार्गः केन उपमितः अस्ति?
(iv) ईशावास्योपनिषदनुसारेण परब्रह्मरूपः कविः किमकरोत्?
(v) गीतायां कवेः स्वरूपं कीदृशं मतम्? [2017/25m/8a]अधोलिखिताः सर्वे प्रश्नाः संस्कृतेन समाधेयाः – अधोलिखितं सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्या स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिभिः भवेत् –
उक्तं हि मेघदूते कालिदासेन –
“कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥”
संसारे नियमितरूपेण मानव-जीवन-दशा-परिवर्तनं जायते । ‘कुटिलं गच्छतीती जगत्’, ‘सम्यक् सरतीति संसारः’, इति संज्ञाशब्दावपि परिवर्तन-प्रवृत्ति-परिपोषकौ स्तः । एकदा जनः धनधान्यसमृद्धः सन् विविधान् भोगान् भुञ्जानोऽन्यानपि भूयसोऽतिथीन् दीनान् पालयितुं प्रभवति । अन्यदाऽसावेव निःस्वतामुपसन्नो यवानां प्रसृतयेऽप्यन्यदीयद्वारमासादयति । धर्मपुत्रं गविष्ठिरं युधिष्ठिरं को न वेत्ति । यो ह्येकदा सहस्रशोऽतिथीन् सौवर्णपात्रेषु भोजयति, स एवैकदा वैराटं निकेतनमासाद्य त्रिदण्डधारणं विधत्ते, प्रहरिकृत्यं प्रचालयति । गाण्डीव-टङ्कार-सभीकीकृतभटो धनञ्जयोऽपि एकदा वीर-वृन्द-विक्रान्त-विग्रहोऽविद्यत, तथा चासावेव पुमानपि स्त्रीव नटी-कर्म कुर्वाणोऽतिवाहयति जीवनम् । महाराजो हरिश्चन्द्रोऽपि एकदा यदा धनदान-मानादितोषेण क्षुत्पिपासाकुलान् अभ्यागतान् अजीवयत्, स एव चाण्डाल-निकेतनमासाद्य तदादेशं शिरसि निदधानः श्मशानसेवां विधत्ते । अतः सत्यमेवोक्तं “चक्रवत् परिवर्तन्ते दुःखानि च सुखानि च ।”
(i) मेघदूतानुसारं दशा-परिवर्तनं कथं भवति?
(ii) जगत्-संसार-शब्दयोः कः अभिप्रेतार्थः?
(iii) युधिष्ठिर-जीवने दशा-परिवर्तनं कथं जातम्?
(iv) दुर्दिनेषु आगतेषु अर्जुनः कथं जीवनं यापयामास?
(v) हरिश्चन्द्रः किं कुर्वाणः दुःखदिनानि सेहे? [2017/25m/8b]अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – अधोलिखित-सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्यां स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिषु भवेत् –
‘समाज’-इत्येतत् पदमात्मनि नितान्तव्यापकमर्थं निधाय पदजगति संशोभते । सर्व एव मानवीयाः सम्बन्धाः संस्थाश्च ‘समाज’-इत्येतेन नामधेयेन व्यवह्लियन्ते । न मनुष्योऽस्ति प्रकृत्योपरतानुरागी । सः स्वजीवनं गोपायितुं स्वभावनावलिं तोषयितुं स्वव्यक्तित्वञ्च संवर्द्धयितुं समाजमध्यास्ते । जनुरारभ्योपरामपर्यन्तं स्वकीयं प्रत्येकमभिलाषं पूरयितुं परमालम्बते सः । नैतदिह विस्मरणीयं यत् स एव मानवसमवायः ‘समाज’-इत्येतां संज्ञां भजते यत्र सौहृदमय-शान्ति-शुचिजीवन-यापनानुरागो जागर्ति । न चाकस्मादेव सञ्जातो जनसंमर्दः कदापि ‘समाज’-इत्यभिधीयते । समाजस्योद्भवस्तु तदा जायते यदा विशाले जननिवहे पारस्परिकसहयोगपूर्वक-जीवनवहनकामनासंघर्षशून्यप्रेमपूतजीवन-दिदृक्षा समोदं समुत्थिता भवति । मनुष्यस्य प्रकृतिरेवास्तीदृशी यत् सा शान्तिं मृगयते; आनन्दमन्विष्यति; न सा एकाकितायां रमते; न तस्यै विविक्तता रोचते । अतः पारस्परिकस्नेह-सहानुभूतिमयजीवनोज्ज्वलजनसमुदाय एव ‘समाज’-शब्दस्य भवति वाच्योऽर्थः ।
(i) कोऽयं समाजः?
(ii) मनुष्यः किमर्थं समाजमध्यास्ते?
(iii) कोऽयं मानवसमवायः ‘समाज’-इत्येनां संज्ञां भजते?
(iv) समाजस्योद्भवः कदा जायते?
(v) मनुष्यस्य प्रकृतिः कीदृशी अस्ति? [2016/25m/8a]अधोलिखिताः सर्वे प्रश्नाः समाधेयाः – अधोलिखित-सन्दर्भं सम्यगवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरी-लिप्यां स्वेन संस्कृतेन दीयताम् । प्रत्येकमुत्तरं 3-4 पंक्तिषु भवेत् –
भारतीयदर्शनसाहित्ये सन्ति त्रयः प्रस्थानग्रन्थाः । ते वेदान् अवलम्बमाना मानवजीवनस्य चरमं लक्ष्यं तत्प्राप्तिसाधनञ्चोपदिशन्ति । भारतीयविचारशास्त्रस्य श्रेष्ठोपजीव्यग्रन्थत्वात् उपनिषदः प्रस्थानत्रय्यां प्रथमप्रस्थानत्वेन गृह्यन्ते । उपनिषदः पराविद्येतिपदेन व्यपदिश्यन्ते । ‘ब्रह्मविद्या’-इत्येतया अपरया च संज्ञया सुविदितास्ता विदुषां संसारे । तासु महर्षयः आध्यात्मिक्या विद्याया गूढतमानां रहस्यानां विशदतया विचारं कुर्वाणाः प्राप्यन्ते । श्रीमद्भगवद्गीता द्वितीयं प्रस्थानमिति कथ्यते । सा श्लोकानां सप्तशत्या निःश्रेयसाधिगमनस्योपायान् सुबोधायां भाषायामभिव्यनक्ति । बादरायणप्रणीतं ब्रह्मसूत्रं तृतीयप्रस्थानमस्ति । तत्र आपाततो विरोधिभूतानामुपनिषद्वाक्यानां समन्वयस्तथा कृतो येन ज्ञातं स्यात् तेषां सर्वेषामपि वाक्यानां ब्रह्मनिष्ठत्वमथ च तत्र तार्किकाणां युक्तयोऽपि प्राबल्येन निराकृताः सन्ति ।
(i) भारतीयदर्शनसाहित्ये कति प्रस्थानग्रन्थाः? के च ते? कश्च तेषाम् उपदेशः?
(ii) किं पराविद्येतिपदेन व्यपदिश्यते? का चाऽपरा संज्ञा?
(iii) गीतायां कति श्लोकाः? कश्च तेषां वर्ण्यविषयः?
(iv) बादरायणप्रणीतब्रह्मसूत्रे किं वर्णितमस्ति?
(v) को वर्ण्यविषय उपनिषदाम्? [2016/25m/8b]अधोलिखित-संदर्भं सम्यगवधार्य तदधस्तात् प्रदत्तानां प्रश्नानामुत्तरं देवनागरीलिप्यां स्वेन संस्कृतेन दीयताम्। प्रत्येकमुत्तरं 3–4 पंक्तिषु भवेत्–
ततो जलाद् बहिरागत्य तिन्तिडीशाखात् उत्तार्य शुष्कवस्त्रे परिधाय, इतस्ततः पर्यट्यापि च कां भूमिमायातौ–इति निश्चेतुं नापारयावः। तावदकस्माद् दृष्टं यद् उत्तरतः खुरधूलिभिः पार्श्वपरिवर्त्ति-लता-कुसुम-परागान् द्विगुणयन्तं वीरवेशः कश्चिच्छ्यामो युवा समायातीति। स च क्षणेनैवाऽऽगत्य, नौ सकलं वृत्तान्तं पृष्ट्वा, विज्ञाय च प्रावोचत्–“अवगतम्, भवतोरेव विषये दृष्टस्वप्नः शिववीरो भवन्तौ स्मरति। तत्सपद्यश्वावारुह्य आगम्यताम्, न वा भयं किमपि, व्यतीतो भवतोर्दुःखमयः समयः” इति। ततः साश्चर्यं सपदि शिववीरं साक्षात्कृत्यावगतं यदेष एव महात्मा भटवेषेणास्मिन्निकटे भीमा-नद्यास्तटं गत आसीदिति। तत्कालमारभ्याद्यावधि तस्यैव कर-कमलच्छायायां वसावः। भगिनीवियोग-तापश्चिरादासीत्, सोऽप्यद्य निवृत्तः।
(i) वीरवेशः कः आसीत्? कीदृशश्च सः?
(ii) भीमा-नद्यास्तटं गत्वा भटवेषेण किं कथितम्?
(iii) भगिनीवियोगदुःखितौ कौ? कीदृशौ तौ?
(iv) शुष्कवस्त्रे कुत्र आस्ताम्?
(v) जलाद्बहिरागत्य अकस्मात् किं दृष्टम्? [2015/25m/8a]अधः प्रदत्तं सन्दर्भं सम्यगधीत्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरीलिप्यां स्वेन संस्कृतेन दीयताम्। प्रत्येकम् उत्तरं 3–4 पंक्तिषु भवेत्–
यद्यपि भारतीय-संस्कृतौ सद्व्यवहारस्य सदाचरणस्य च भूरि भूरि प्रशंसा समुपलभ्यते तथापि शठतामेव सर्वोपरि साधनरूपेण मन्यमानानां कुटिलानां पराजयार्थमद्य ‘आर्जवं हि कुटिलेषु न नीतिः’ इति मत्वा तेषां प्रति विधीयमाना कुटिलता न नीतिविरुद्धो धर्म इति। यदि भगवता श्रीमोहिन्याः स्वरूपं न कृतं स्यात् तर्हि कथं दैत्यान् आकृष्य अमृतोत्पादनसमये सुधां संगृह्य देवरक्षा कृता स्यात्। कंसस्य पिता उग्रसेनः महात्मा आसीत् परन्तु तस्य साधुता कंसवशीकर्तुं विफला जाता। कुटिलाः जनाः कुटिलव्यवहारेण वशे आयान्ति नान्यथा। अद्य आतंकवादिनाः कुटिलव्यवहारेण भारतीय-सज्जन-जनान् घातयन्ति। अतः अद्य किं करणीयमिति विचारणीयो विषयः। विवेचनस्य अस्य नायं निष्कर्षः यत् साधुता हेया।
(i) किं साधुता सर्वथा हेतव्या?
(ii) आर्जवतायाः परित्यागः केन किमर्थं कृतः?
(iii) कस्य प्रशंसा समुपलभ्यते?
(iv) कुटिलाः जनाः कथं पराभवन्ति?
(v) अद्य आतंकवादिभिः सह कीदृशः व्यवहारः करणीयः? [2015/25m/8b]अधः प्रदत्तं सन्दर्भं सम्यग् अधीत्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरी-लिप्यां स्वेन संस्कृतेन दीयताम्। प्रत्येकम् उत्तरं 3–4 पंक्तिषु भवेत्–
सखि! त्रिभुवनोपदेशदानदक्षायास्तव पुरो जिह्वा जिह्रेति मे जल्पन्ती। जानास्येव यादृश्यो विसंस्थुत्वा गुणवत्यपि जने दुर्जनवन्निर्दाक्षिण्यः क्षणभंगिन्यः दुरतिक्रमणीया न रमणीया दैवस्य वामाः वृत्तयः। निष्कारणं च निकारकणिकापि कलुषयति मनस्विनोऽपि मानसमसदृशजनादापतन्ती। अनवरतनयनजलसिच्यमानश्च तरुरिव विपल्लवोऽपि सहस्रधा प्ररोहति। अतिसुकुमारं च जनं संतापपरमाणवो मालतीकुसुममिव ग्लानिमानयन्ति। महतां चोपरि निपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनायालम्। सहजस्नेहपाशबद्धग्रन्थिबन्धनाश्च बान्धवभूता दुस्त्यजाः जन्मभूमयः। दारयति दारुणः क्रकचपात इव हृदयं संस्तुतजन-विरहः।
(i) दैवस्य वामाः वृत्तयः कीदृश्यः भवन्ति?
(ii) असदृशजनाद् आपतन्ती निकारकणिका किं करोति?
(iii) संतापपरमाणवः किं कुर्वन्ति?
(iv) जन्मभूमयः कुतः दुस्त्यजाः भवन्ति?
(v) संस्तुतजन-विरहः किं करोति? [2014/25m/8a]अधः प्रदत्तं सन्दर्भं सम्यग् अवधार्य तदधस्तात् पृष्टानां प्रश्नानामुत्तरं देवनागरी-लिप्यां स्वेन संस्कृतेन दीयताम्। प्रत्येकम् उत्तरं 3–4 पंक्तिषु भवेत्–
सृष्टेरादौ सर्वज्ञेन परमात्मना विश्वकल्याणभावनया सर्वजनसंवेद्यं वेदज्ञानमाविष्कृतम्। मानवसंसृतौ सर्वेऽपि मानवाः स्वस्वपरिवारानुबद्धा एव। परिवार एव मानवसमूहस्य प्रथमा संख्या स्वीकर्त्तव्या। परिवारा एव क्रमशो वृद्धिमुपगताः सन्तो ग्रामरूपेण, नगररूपेण, प्रदेशरूपेण अथ च राष्ट्ररूपेण परिलक्ष्यन्ते। अत एव वेदे परिवारमुद्दिश्य तत्सुखोपायाः अभ्युदयोपायाश्च सम्यक् निर्दिष्टाः। सर्वप्रथमं वैचारिकमैक्यमभीप्सितम्। यत्र पारिवारिकाः परस्परं सौमनस्यं सहभावं सुखदुःखयोः समामनुभूतिं च विभावयन्ति तत्र चिररमणीयो भवति सुखवासः। लोके शक्तिमन्त एव जीवनं धारयन्ति, शक्तिप्रतिष्ठा च सङ्घ एव वर्त्तते। त एव शक्तिमन्तो भवितुमर्हन्ति ये सङ्घे विचरन्ति सङ्घे विश्वसन्ति च। जनाः यदि संगठिताः स्युस्तर्हि तान् कोऽपि पराजेतुं न प्रभवति। सङ्घटनं त्रिभिः परिपुष्टं भवति–सङ्गमेन, संवादेन संविचारेण च।
(i) परमात्मना वेदज्ञानं किमर्थमाविष्कृतम्?
(ii) मानवजीवने परिवारस्य किं महत्त्वम्?
(iii) पारिवारिकमैक्यं कथं स्थापयितुं शक्यते?
(iv) शक्तिप्रतिष्ठा कथं प्राप्यते?
(v) सङ्घटनशक्त्या किं भवति? कथं च सङ्घटनं क्रियते? [2014/25m/8b]अधःप्रदत्तं सन्दर्भं सम्यगवधार्य तदधस्तात् प्रदत्तानां प्रश्नानामुत्तरं देवनागरीलिप्यां स्वेन संस्कृतेन देयम्। प्रत्येकम् उत्तरं 3–4 पंक्तिषु भवेत्–
राष्ट्राभ्युदयाय प्राचीनसमये द्वौ नियमावपाल्येताम्। तयोरेकतरो राजद्वारेण प्राचाल्यत अपरश्च लोकसंस्थया। श्रेणीनिगमपाषण्डगणभेदेन लोकसंस्था चतुर्विधाऽऽसीत्। इमाश्चतस्रोऽपि संस्थाः सार्वजनिकत्वेन बभूवुः। श्रेणी शिल्पिनां, निगमो वणिजां, पाषण्डो धर्मसम्प्रदायानां, गणश्च राजनीतिकसंघानामासीत्। एतासां संस्थानां नियमाः ‘सामयिक’ इत्येतेन शब्देन व्यवह्रियन्त। अयं ‘सामयिक’शब्दः स्मृतिषु ‘सवित्’ इत्युक्तः। लोके ये केऽपि देयभागा आसंस्ते सर्वे सामयाचारिकनियमेनैव समापाद्यन्त न तु राजानुज्ञया। सामदानदण्डादिविषयिणी राजनीतिस्तत्प्राप्तिसाधनानि च ‘औपयिकम्’ इत्येतेन शब्देन व्यवह्रियन्ते स्म। कौटल्येन व्यावहारिकधर्मोऽप्येको निरूपितः। विवाहदायभागवास्तुविक्रयसमयर्णदानौपनिधिकदासकर्मकरकल्पसम्भूयसमुत्थानसाहसवाक्पारुष्यदण्डपारुष्यादिव्यवहारान् आत्मन्यभिव्याप्य एष शब्दो विजृम्भते। राज्यस्य समुत्कर्षार्थं जनपदमात्यकोशमित्रसम्पदामवाप्तियोजनं, मन्त्रप्रभूत्साहशक्तीनामर्जनमधिकृत्य राजशास्त्रेषु सविशदं प्रतिपादनं वर्तते।
(i) का नाम लोकसंस्था? कतिविधा च सा? नामानि लेख्यानि।
(ii) ‘सामयिक’ इति पदेनात्र कोऽभिप्रायः?
(iii) ‘औपयिकम्’ इति किम्?
(iv) राज्यस्य उन्नत्यै कासां सम्पदाम् अर्जनं निर्दिष्टम्?
(v) देयभागानां वितरणे के नियमाः परिपाल्यन्ते स्म? [2013/25m/8a]अधःप्रदत्तं सन्दर्भं सम्यगवधार्य तदधस्तात् प्रदत्तानां प्रश्नानामुत्तरं देवनागरीलिप्यां स्वसंस्कृतभाषया देयम्। प्रत्येकम् उत्तरं 3–4 पंक्तिषु एव देयम्–
प्राचीनैः रूपकैर्ज्ञायते यत् तेषु दिवसेषु वराकाः निःस्वाः पुरुषाः मृण्मयेषु गेहेषु वासं चक्रिरे। छदिस्तेषां तृणमयी अक्रियत। धनिनां गेहनिर्माणे ग्राव्णामिष्टिकानाञ्च प्रयोगो व्यधीयत। तत्र काष्ठगृहाणामपि वर्णनं दृग्गोचरं भवति। गृहाणां भित्तयः सुधासिताश्चित्रविचित्राः, कुट्टिमानि चानर्घद्रव्यैः प्राणीयन्त। मौर्यकाले काष्ठगेहा बहवोऽदृश्यन्त। पुरातत्त्वज्ञैरशोकस्य काष्ठदुर्गोत्खननं कारयित्वा तथ्यमिदं जनसामान्यस्य पुरस्तात् प्रस्तुतीकृतम्। प्रायेण गृहा द्विवासा निरमीयन्त। आभ्यन्तरो वामभागो वामानां निमित्तेन बाह्यश्च प्रकोष्ठभागः पुंसां निमित्ताद् व्यरच्यत। वसन्तसेनायाः भवनं तु अष्टप्रकोष्ठम् आसीद् इति वर्णितं मृच्छकटिके। गृहेषु सुरम्या स्तम्भावली, भित्तयश्च चारुचित्रचित्रिताः क्रियन्ते स्म। गृहस्य प्रघाणप्रदेशे निष्कुट-दीर्घिका-कूपादीनामपि यथास्थानं निर्माणं कृतमभूत्। नगराण्यपि सुनियोजितान्यासन्। परिखाभिः सुरक्षितानि, विविधदुर्गैश्च सुसज्जितानि नगराणि आपत्कालेष्वपि प्रजानां कृते सर्वसौविध्ययुक्तानि बभूवुः।
(i) निर्धनानां गृहाः कीदृशाः बभूवुः?
(ii) काष्ठनिर्मितगेहानां प्रचलनं कदा प्राप्यते?
(iii) गृहेषु स्त्रीणामावासो कस्मिन् भागे भवति स्म?
(iv) गृहस्य पृष्ठभागेषु किंविधं निर्माणं क्रियते स्म?
(v) आपत्कालेषु प्रजासुरक्षार्थं नगराणि कीदृशानि निर्मीयन्ते स्म? [2013/25m/8b]अधोलिखितं संदर्भं सम्यगवधार्य तदधस्तात् प्रदत्तानां प्रश्नानामुत्तरं कार्यं सुरगिरा नागराक्षरैश्च ।
द्रोणेन चक्रव्यूहे निर्मिते युधिष्ठिरश्चिन्तया व्याकुलो जातः । अजुनिन विना नापरः कोऽपि जानाति चक्रव्यूहभेदकर्म । स च व्यापृतः संशप्तक-नामक-संग्रामे । तर्हि का गतिः? इत्थं चिन्ताकुले युधिष्ठिरे अभिमन्युर्युधिष्ठिरमुपगम्य चिन्ताकारणं जानाति स्म । ज्ञात्वा चाह – ज्येष्ठतात ! अहं चक्रव्यूहं भेत्स्यामि । अहं गर्भस्थ एव चक्रव्यूहस्य भेदोपायं पितुः सकाशादशिक्षे । वाचमिमां श्रुत्वा नृपतिर्युधिष्ठिरः स्वस्थोऽभवत् । किन्तु तस्य चित्तमभिमन्योरमङ्गलाशङ्कया अन्तरा अन्तरा कम्पितुमारेभे । तथापि न कापुरुषत्वं परन्तु वीरत्वमेव क्षात्रधर्म इति मत्वा तदाशङ्कातः प्रतिनिवृत्तः । अथ तत्रभवान् अभिमन्युं चक्रव्यूहसंग्रामे सेनापतिपदे स्थापितवान् ।
(a) कस्य युद्धस्य विषये अयं कथांशः? कुत्रेदं युद्धं संघटितम्? कस्मिन् मूलग्रन्थे उपलब्धोऽयं वृत्तान्तः?
(b) कीदृशो बलविन्यासोऽत्र वर्णितः? केन स निर्मितः । किं वा तस्य फलमत्रोक्तम्?
(c) अर्जुनः कतमः पाण्डवः? स कुत्र व्यापृतः? तस्य किं विशेषज्ञानमासीत्?
(d) कोऽभिमन्युः? स कस्मिन् विषये स्वकीयं ज्ञानं कस्मै निवेदितवान्? कथं स इदं प्राप्तवान्? का तस्य जननी?
(e) कति पाण्डवपक्षीया अस्मिन् ग्रन्थांशे उल्लिखिताः? कोऽत्र ज्येष्ठः? किं तस्य चिन्ताकारणम्?
(f) क्षात्रधर्म-पदं व्याख्याय, तद्विषये अत्र यदुक्तं तदुल्लेख्यम् । अन्ततः कः सेनापतिपदे वृतः? [2012/30m/8a]अधोलिखितं संदर्भं सम्यगवधार्य तदधस्तात् प्रदत्तानां प्रश्नानामुत्तरं स्वभाषायां सुरगिरा नागराक्षरैश्च प्रदेयम् ।
विश्वम्भराभरणभूतस्यास्य भारतवर्षस्य नायकमणिरिव स्थितो वत्सदेशो महासमृद्धिशाली । हृदयमिवासौ भवति महामहिमशाली सकलभूमण्डलस्य । सकलभुवनभरणकर्त्तुः भगवतो भास्करस्य दुहितृभूता भगवती कालिन्दी स्वयमेवैनं देशं पीयूषंभरीभिर्लहरीभिः सिञ्चन्ती धनधान्यसमृद्धं विदधाति । जगद्वन्दनीया कौशाम्बी राजधानी चास्य सकलजनानुरञ्जनी ।
पञ्चशताधिकद्विसहस्रवर्षपूर्वस्मिन् काले नगरीयं प्रधानीभूता सकलधरणीमण्डलनगरीणाम् । प्रमुखं च केन्द्रमासीदियं वीरतायाः, विद्यायाः, राजनीतेर्वाणिज्यस्य च । प्रसृता यशः सुरभिः दशसु दिक्षु वत्सदेशाधीश्वराणां वीरतायाः, राजनीतिनिपुणतायाः, प्रजावत्सलतायाश्च । कौशाम्बीवर्तिषु-विद्याकेन्द्रेष्वध्ययनमेव स्नातकोपाध्यलंकृतिभाजनत्वं च विदुषां परं सम्माननीयमासीत् सकलभुवनतले । सकलधरणीतलवर्तिव्यापारकेन्द्रेभ्यः सार्थवाहाः समागत्य स्वकीयानि विक्रेयवस्तून्यादायास्यां नगर्यां वाणिज्य-माध्यमेनास्याः परां समृद्धिं वर्द्धयन्ति स्म ।
(a) कीदृश आसीत् वत्सदेशः?
(b) कालिन्दी कस्य पुत्री आसीत्?
(c) कौशाम्ब्याः वैभवं गौरवञ्च कीदृशमासीत्?
(d) तत्रत्यानां विद्यालयानां स्वरूपं वर्ण्यताम्?
(e) विदेशीयाः सार्थवाहाः तत्र किमर्थमागच्छन्ति स्म?
(f) वत्सदेशराजानः किमर्थं प्रसिद्धाः आसन्? [2012/30m/8b]अधोलिखित-सन्दर्भं सावधानतया पठित्वा अन्ते प्रदत्तानां प्रश्नानां सम्यगुत्तरं संस्कृतेन प्रदीयताम् । किं पराविद्येतिपदेन व्यपदिश्यते? का चाऽपरा संज्ञा? [2011/10m/8a]
अधोलिखित-सन्दर्भं सावधानतया पठित्वा अन्ते प्रदत्तानां प्रश्नानां सम्यगुत्तरं संस्कृतेन प्रदीयताम् । को वर्ण्यविषय उपनिषदाम्? उपनिषदामपरं नाम किम्? [2011/10m/8b]
अधोलिखित-सन्दर्भं सावधानतया पठित्वा अन्ते प्रदत्तानां प्रश्नानां सम्यगुत्तरं संस्कृतेन प्रदीयताम् । भारतीयदर्शनसाहित्ये कति प्रस्थानग्रन्थाः? के च ते? [2011/10m/8c]
अधोलिखित-सन्दर्भं सावधानतया पठित्वा अन्ते प्रदत्तानां प्रश्नानां सम्यगुत्तरं संस्कृतेन प्रदीयताम् । बादरायणप्रणीतब्रह्मसूत्रे किं वर्णितमस्ति? [2011/10m/8d]
अधोलिखित-सन्दर्भं सावधानतया पठित्वा अन्ते प्रदत्तानां प्रश्नानां सम्यगुत्तरं संस्कृतेन प्रदीयताम् । उपनिषदामध्ययनेन किं भवति? [2011/10m/8e]
अधोलिखित-सन्दर्भं सावधानतया पठित्वा अन्ते प्रदत्तानां प्रश्नानां सम्यगुत्तरं संस्कृतेन प्रदीयताम् । उपनिषदिति संज्ञा कथं युक्ता? निर्वचनं क्रियताम्? [2011/10m/8f]
अधोलिखितं सन्दर्भं साभिनिवेशं पठित्वा प्रदत्तानां प्रश्नानां यथोचितमुत्तरं प्रदीयताम् । कोऽयं भासुरकः? स कुत्र न्यवसत्? किं चाकरोत्? [2010/10m/8a]
अधोलिखितं सन्दर्भं साभिनिवेशं पठित्वा प्रदत्तानां प्रश्नानां यथोचितमुत्तरं प्रदीयताम् । सर्वे पशवो मिलितास्तं किमब्रुवन्? [2010/10m/8b]
अधोलिखितं सन्दर्भं साभिनिवेशं पठित्वा प्रदत्तानां प्रश्नानां यथोचितमुत्तरं प्रदीयताम् । भासुरकेन किमुत्तरं दत्तम्? [2010/10m/8c]
अधोलिखितं सन्दर्भं साभिनिवेशं पठित्वा प्रदत्तानां प्रश्नानां यथोचितमुत्तरं प्रदीयताम् । शशकस्य वारे समायाते तेन किं कृतम्? [2010/10m/8d]
अधोलिखितं सन्दर्भं साभिनिवेशं पठित्वा प्रदत्तानां प्रश्नानां यथोचितमुत्तरं प्रदीयताम् । शशकः सिंहाय विलम्बागमनस्य किं कारणमदर्शयत्? [2010/10m/8e]
अधोलिखितं सन्दर्भं साभिनिवेशं पठित्वा प्रदत्तानां प्रश्नानां यथोचितमुत्तरं प्रदीयताम् । सिंहः कथं पञ्चत्वं गतः? [2010/10m/8f]
अधस्तात्प्राप्तं ग्रन्थांशं सम्यगवधार्य सरलसुरगिरा प्रश्नानां समाधानं कर्तव्यम् । कस्य युद्धस्य विषये अयं कथांशः? कुत्रेदं युद्धं संघटितम्? [2009/10m/8a]
अधस्तात्प्राप्तं ग्रन्थांशं सम्यगवधार्य सरलसुरगिरा प्रश्नानां समाधानं कर्तव्यम् । कीदृशो बलविन्यासोऽत्र वर्णितः? केन स निर्मितः । किं वा तस्य फलमत्रोक्तम्? [2009/10m/8b]
अधस्तात्प्राप्तं ग्रन्थांशं सम्यगवधार्य सरलसुरगिरा प्रश्नानां समाधानं कर्तव्यम् । अर्जुनः कतमः पाण्डवः? स कुत्र व्यापृतः? तस्य किं विशेषज्ञानमासीत्? [2009/10m/8c]
अधस्तात्प्राप्तं ग्रन्थांशं सम्यगवधार्य सरलसुरगिरा प्रश्नानां समाधानं कर्तव्यम् । कोऽभिमन्युः? स कस्मिन् विषये स्वकीयं ज्ञानं कस्मै निवेदितवान्? कथं स इदं प्राप्तवान्? [2009/10m/8d]
अधस्तात्प्राप्तं ग्रन्थांशं सम्यगवधार्य सरलसुरगिरा प्रश्नानां समाधानं कर्तव्यम् । कति पाण्डवपक्षीया अस्मिन् ग्रन्थांशे उल्लिखिताः? कोऽत्र ज्येष्ठः? किं तस्य चिन्ताकारणम्? [2009/10m/8e]
अधस्तात्प्राप्तं ग्रन्थांशं सम्यगवधार्य सरलसुरगिरा प्रश्नानां समाधानं कर्तव्यम् । क्षात्रधर्म-पदं व्याख्याय, तद्विषये अत्र यदुक्तं तदुल्लेख्यम् । [2009/10m/8f]
« Previous: लघुनिबन्धः · Next: खण्डः क, वर्गः 1: काव्यम् »
Back to: Sanskrit Literature Optional PYQs – Topic-wise
Last updated: 2 November 2026

